________________
लिङ्गानुशासनम्
[ 23
द्वन्द्व त्वाव्ययीभावौ,
क्रियाव्ययविशेषरणे ।
कृत्याः क्तानाः खल् ञिन् भावे या त्वात् त्वादिः समूहः ।। ६ ।।
द्वन्द्वकत्वं सुखदुःखं, अव्ययीभावः दण्डादण्डि, तूष्णींगङगं देशः, पञ्चनदम, पारेगङ्गमित्यादि । क्रियाया अव्ययस्य च यद्विशेषणं समानाधिकरणं तद्वाचि नपुंसकं साधु पचति, प्राग्रमणीयं दिग् देशः कालो वा, एवमुदग् प्रत्यगित्यादि । भावे विहिताः कृत्याः क्तानाः खल् त्रिन् तदन्तं नाम क्लीबम्, चैत्रेण कार्य पाक्यं कर्तव्यं करणीयं, देयं ब्रह्मभूयं ब्रह्मत्वमित्यादि । ताना इति प्रश्लेषात् प्रानानानटो गृह्यन्ते, क्त चैत्रेण कृतं, आनेति कानानशोर्ग्रहणं, पेचानं पच्यमानं चैत्रेण प्रनट् निर्वारणं, अन इष स्थानं मैत्रेण ।
खल् दुराढ्यंभव मंत्रेण । त्रिन् समन्ताद् रावः सांराविणम् । 'भावे त्वतल्' [७-१-५५] इति त्व प्रत्ययादारभ्य ब्रह्मणस्त्वमिति त्वमभिव्याप्य ये प्रत्यया त्व-यएयण्-अञ्-ग्रण्-अकञ् - ईय-त्वरूपास्तदन्तं नाम क्लोबम् । त्व तदात्वं तत्कालः । य:सख्यं मंत्री, वरिणज्यं तु स्त्री क्लीबम् । एयण् — कापेयं कपेः क्रीडादिकम् । अञ्– द्वैपं द्वीपिनो जातिः कर्म च । अण्–चापलम् । अकञ् – आचार्यकं, प्राचार्यता । ईहोत्रीयम् । त्व - ब्रह्मत्वम् ।
समूहे जाता ये प्रत्यया पण्, अकञ्, ण्य, इकण्, य, ईय, ड्वण्, अञ्, एयरूपास्तदन्तं नाम क्लीबम् । प्रण्- भैक्षं, प्रकञ् प्रौपगवकं ण्य कैदार्यं, इकण् कावचिकं, य ब्राह्मण्यं, ईय प्रश्वीयं, ड्वण् पार्श्व, अञ् शौवं, एयञ् पौरुषेयम् इत्यादि ।। ६ ।।
त्रायत्र्याद्यरण, स्वार्थेऽव्यक्तमथानञ्कर्मधारयः ।
तत्पुरुषो बहूनां चेच्छाया शालां विना सभा ॥ १० ॥
गायत्र्यादीनि च्छन्दोनामानि स्वार्थे योऽण तदन्तानि क्लीबानि, गायत्रयेव गायत्रम्, एवमानुष्टुभादीन्यपि । अव्यक्त अव्यक्तलिङ गवाचि क्लीबम् । किं तस्या गर्भेजातं, यत्तत्रोत्पद्यते तदानय, इदं च शिष्टप्रयुक्त ष्वेव द्रष्टव्यं अधिकारोऽयं गृहतः स्थूणा इति यावत् । यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र नञ्समासं कर्मधारयं च वर्जयित्वा योऽन्यस्तत्पुरुषः स नपुंसकं भवतीति अधिकृतं वेदितव्यं, छायान्तस्तत्पुरुषः क्लीबः, सा यदि येषां बहूनां समुदितानां संभवति, शलभानां छाया शलभच्छायं, शरच्छायम् ।
बहूनामिति किम् ? कुड्यस्य छाया कुड्यच्छाया । सेना शालेत्या दिना विकल्पे प्राप्ते वचनं नित्यार्थम् । शालां मुक्त्वाऽन्यत्रार्थे यः सभाशब्दस्तदन्तस्तत्पुरुषः क्लीबः, स्त्रीसभं, दासीसभं, मनुष्यसभं तत्समूह इत्यर्थः । नञ् कर्मधारय इत्येव ? प्रसभा, परमसभा, परमसभाया उत्तरपदत्वविज्ञानादिह न स्यात् स्त्रीणां परमसभा स्त्रीपरंमसभा एवमुत्तरत्राऽपि ।। १० ।।