________________
22 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
पुरं सद्माङ गयोश्छत्रशीर्षयोः पुण्डरीकके। मधु द्रवे ध्र वं शश्वत्तर्कयोः खपुरं घटे ॥ ५॥ अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कटु ।
असे द्वन्द्व स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥ ६॥ सद्मनि अङगे च पुरं क्लीबं, नगरे तु त्रिलिङ गः । पुण्डरीक कं च क्रमेण छत्त्रे शीर्षे च, द्रवति वस्तुनि मधु क्लीब, मधु मकरन्दः, शश्वन्नित्ये त ऊहे चर्के ध्र वं अन्यत्र तु यथाप्राप्तम् । खपुरं घटे वाच्ये क्लीबम् । अयूपादिष्वर्थेषु यथासंख्यं युगादिष्टकटुशब्दाः क्लीबाः, युगं युग्मं कृतादि च, यूपे तु पुनपुसकं, गोगोयुगं इत्यादौ तु गोयुगप्रत्ययान्तादेव सिद्धं । दिष्टं देवं, काले तु पुसि, कटु अकार्यं दूषणं च, समासादन्यत्र द्वन्द्व क्लोब, द्वन्द्व युग्मं अर्थप्राधान्याद् द्वन्द्वमपि, धन्वन् शब्दः स्थले क्लीबः । मरौ तु पुनपुसकः, द्रुमं च पक्षिणं च वर्जयित्वाऽरिष्टं क्लीबं, अरिष्टं सूतिकागृहं, मरणं, अशुभम् ।। ५-६ ।।
धर्म दानादिके तुल्यभागेऽर्धं ब्राह्मणं श्रुतौ ।
न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ७ ॥ दानादिके पुण्यस्योपाये धर्मः क्लीबः, तानि धर्माणि प्रथमान्यासन्, पुण्ये तु मान्तत्वात् पुस्त्वं, स्वभावे तु पुनपुसकः । समेंऽशे वाच्येऽर्धशब्दः, अर्धं पिप्पल्याः अर्धपिप्पली, अतुल्ये भागे तु पुस्त्वं, केचिदाश्रयलिङ गतामाहुः. श्रुतौ वेदविषये ब्राह्मणं नपुंसक, न्यायादनपेतं न्याय्यं तस्मिन् वाच्ये सारशब्दः बलादौ तु पुस्त्वं, इभबिन्दौ वाच्ये पद्म नपुसकं अन्यत्र तु यथाप्राप्तं । अनुज्ञायां कामं क्लीबं, अयमव्ययमप्यस्ति ।।७।।
खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः ।
भूमोऽसंख्यात एकार्थे पथः संख्याव्ययोत्तरः ।। ८ ।। भुवि वाच्यायां क्लीबं खलं, पिण्याके दुर्जने च पुनपुसकः स्थाने तु त्रिलिङ गः । सुवेध्ये वाच्ये लक्षं. व्याजे तु पुनपुसकः, संख्यायां तु पुस्त्री, शोभनवाचिदिनशब्दादेकशब्दाच्च परो अह इति कृतसमासान्तोऽहन् शब्दः क्लीबः । भूम इति कृतसमासान्तो भमिशब्दः संख्याया अन्येभ्यः परः एकार्थे कर्मधारये वर्तमानः क्लोबः, पाण्डर्भमिः पाण्डभमम एवमुदग्भूमं, कृष्णभूमम् । असंख्यात इति किम् ? द्वयोभूम्योः समाहारः द्विभूमं, 'अन्यस्तु सर्वो नपुसकः' इति नपुसकत्वम् । ननु चेत् संख्यापूर्वस्यापि क्लीबत्वं तहि निषेधोऽनर्थकः ? नवं, द्वयोभूम्योः क्रीत इति कृतसमासान्तादिकरिण तस्य लुपि क्लीबत्वं पाश्रयलिङगता चेष्यते, एतच्च विशिष्टं व्यावृत्तेः फलं, संख्यावाचिनोऽव्ययाच्च परः कृतसमासान्तोऽयं पथिन्शब्दः पथशब्दो वा क्लीबे, द्वयोः पन्थाः द्विपथं, द्वयवयवो वायम् ।। ८ ।।