________________
लिङ्गानुशासनम्
[ 21
मित्यादि । शुभम् श्वःश्रेवसं, कल्याणमित्यादि, शम्भावपि निश्रेयसशब्दो बाहुलकात् नपुंसकः। अम्बुरुहम् अब्जन् कशेशयम् इत्यादि अम्बुरुहवाचिनां नलिनाम्बुजपद्मकमलनालीकानां पुनपुसकत्वं, अघं पापं, गूथं अशुचिः ।
___ जलं. सलिलं, कीलालं, क्षीरं, दधिसारबाणयोस्तु पुनपुसकत्वं, गौडस्तु घनरसस्यापि, वरुणस्य तद्वाचिनो बाहुलकात् पुस्त्वं, अंशुकं, वस्त्रम् । दारु काष्ठं, काष्ठान्तत्वात् पूतिकाष्ठमपि सरलो देवदारुश्च द्रुमौ, एधस्तु घान्तत्वेन पुसि, समिधस्तु स्त्र्युक्तत्वात् स्त्रीत्वं, मनो मानसमित्यादि । बिलं रन्ध्र इत्यादि, पिच्छं पतत्त्रम्, पत्त्रं । तनूरुहगरुद्बर्हास्तु पुनपुसकाः, धनुः कामु कं, पिनाक-कोदण्ड-गाण्डीवगाण्डिवानां पुनपुसकत्वं, दलं किसलयं, तालुः काकुदं, हृत् हृदयं, वक्षः पुनपुंसकम् ।। २ ।।
हलदुःखसुखागुरुहिङ गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम् ॥ ३ ॥
हलं लाङ गलं, दुःखं कष्टं, सुखं शर्म,--सुखादीनां गुणवृत्तेस्त्वाश्रयलिङ गता। सुखः सुखा, अगुरु लोहं. ह्रिङ गुः सहस्रवेधि, रुचं ह्रीबेरं, त्वचं गन्धद्रव्यविशेषः, भेषजं शमनं, तुत्थं चक्षुष्यो द्रव्यविशेषः, औषधस्तु पुनपुसकः । कुसुम्भं वह्निशिखं, महारजतं, कुसुभस्तु पुनपुसकः। अक्षिः ईक्षणं, दृग् दृष्टिः स्त्रीलिङ गे, मरिचं वेल्हजं, अस्थि कीकसं, शिलाभवं शिलायाः सारः निस्यन्दः शैलेयसंज्ञं, सृक्क प्रोष्ठपर्यन्तः, यकृत् दक्षिणपार्वे कृष्णमांसांशः, नलदं तृणविशेषः, अन्तिकं समोपं, अभ्यर्णं. अभ्याशम् । दन्त्योपान्त्ये तु बाहुलकात् पुस्त्वम् । सिध्म किलासं, यत् युद्धं, युधस्तुस्त्रीत्वम्,संयतो नपुसकत्वम् ।। ३ ।।
सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् ।
लवणव्यञ्जनफल-प्रसूनद्रवतां सभित् ।। ४ ॥ सौवीरादीनां लवणादीनां तु सभेदमपि क्लीबं, वाच्यस्य सभेदत्वान्नामापि सभेदं, सौवीरं सौवीराञ्जन, स्थानकं योघानामालीढादिसंस्थानविशेषः, द्वारमुपायेऽपि बाहुलकात् क्लीबं । क्लोममुदर्यो जलाधारो हृदयस्य दक्षिणे यकृत् क्लीमं च वामे प्लीहा पुष्पसाश्चेति वैद्याः, धौतेयकं ग्रन्थिपणे, तद्वाची जीवदस्तु बाहुलकात् पुसि । असृग् रुधिरं, लवणं तद्भेदाः, अक्षीवमाणिवन्धविडादयः, व्यञ्जनभेदाः दधिदुग्धाज्यतकादयः, गोरसस्य सान्तत्वात् पुस्त्वं, फलभेदा नालिकेरादयः, प्रसूनभेदाश्चम्पकादयः, अग्निसंपर्के ये द्रवन्ति विलीयन्ते ते द्रवन्तस्तेषां भेदा लोहादयः, स्वर्णवाचिनस्तु चाम्पेयस्य प्रारकूटवाचिनो मदनस्य तु बाहुलकात् पुस्त्वं, इह पृथग्ग्रहणात् जलसंपर्काद् ये द्रवन्ति, न तेषां परिग्रहः, तेन न मृदोऽपि परिग्रहः ॥ ४ ॥