________________
लिङ्गानुशासनम्
रुचकं धान्याकनिः शलाकालीकालिकशल्कोपसूर्यकाल्कम् । कवक कि बुकतोक तिन्तिडीकैडूकं
रुचकं चन्दनपेषरणी शिला, धान्याकं अल्लुका, अर्थप्राधान्यात् धानेयकं, धान्यकं, धानीयकं अपि । निःशलाकं रहः । अर्थप्राधान्याज्जनान्तिकमपि, अलीकं ललाटं अलिकं च, शल्कं खण्डं, उपसूर्यकं परिवेषः प्रत्कश्व रोगः । कवकं भूकन्दविशेषः । किबुकं जलोत्पन्न द्रव्यविशेषः, तोकमपत्यं, तितिडीकं चक्र, एड्रकं अन्तर्न्यस्तास्थि कुड्यं छत्राकं भूकन्दविशेषः, त्रिकं पृष्ठाधो भागः, उल्मुकं अलातम् ।। १४ ।।
छत्राकत्रिकोल्मुकानि ॥ १४ ॥
माकदम्बके बुकं चिबुकं कुतुकमनूक चित्रके ।
कुहुकं मधुपर्कशीर्षके शालूकं कुलकं प्रकीर्णकम् ।। १५ ।।
[ 25
मार्दीकं मृद्वीकासवः, अर्थप्राधान्यात् माध्वीकमपि हारहूरं च सुरानामत्वेन स्त्रीत्वे प्राप्ते वचनम् । कदम्बकं समूहः, काभावे कदम्बं, बुकं तृणविशेष, चिबुकमधरस्याधः । कुतकं कुतूहलं, अनूकमन्वयः, चित्रकं पुण्ढ, कुहुकमाश्चर्यं मधुपर्कं दधिमध्वादिः देवादीनामर्घः, शोर्षकं शिरस्त्राणं, शालूकमुत्पलादिकन्दः, कुलकं वृत्तसमूहः, प्रकीर्णकं चामरन् ।। १५ ।।
हल्लीसक पुष्पके खलिङ्गं स्फिगमङ्गं प्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्ट व्युष्टं करोटकृपीट - चीनपिष्टम् ॥ १६ ॥
हल्लीसकं स्त्रीणां नृत्तभेदः, पुष्पकं नेत्ररोगः, खं संवेदनं, लिङ्गं हेतुचिह्न ं च अर्थप्राधान्याच्चिह्नमपि, स्फिगं, स्फिग् ग्रङगं प्रतीकः समीपं च अङ्गान्तत्वाद् वराङ्गं चक्राङ्गं च । प्रगं प्रभातं, चोचमुपभुक्तफलावशेषश्छल्ल्यादि । बीजं हेतुः प्रधानं च, पिञ्ज बलं, रिष्टं क्षेमं फाण्टमनायासं, ललाटं भालं, इष्टं ऋतुकर्म, व्युष्टं प्रभातं, करोटं मस्तकं कांस्यभाजनं च कृपीटमुदरं, चीनपृष्टं सिन्दूरम् ।। १६ ।।
शृङ्गाटमोर पिटान्यथ पृष्ठगोष्ठ
भाण्डाण्ड तुण्डशर रणग्रहरणे रणानि ।
पिङ गारगतीक्ष्णलवण द्रविणं पुराणं,
त्राणं शरणं हिरणकाररणकार्मणानि ।। १७ ।
शृङ्गाटं जलोद्भवकन्दः चतुष्पथं च । मोरटमिक्षुमूलं, पिटं छर्दिः, टान्तानां तु पु ंस्त्वे प्राप्तेऽस्य पाठः । ग्रंथ ठान्तौ पृष्ठं प्राण्यङगं गोष्ठं, गोकुलं गोष्ठप्रत्ययान्त• मपि, गोगोष्ठं, अश्वगोष्ठं । 'पशुभ्यः स्थाने गोष्ठ ः' इति गोष्ठः । भाण्डं भाजनं गेहं च,
अण्डं वृषणः, तुण्डं मुण्डं प्रर्थप्राधान्यात् द्विजालयमपि शरणं गृहं त्राणं च ग्रहणमादरः, इरिणमूषरम् | अर्थप्राधान्यः दूरमपि । पिङ्गाणं काचभाजनं गेहं च । तोक्ष्णं विषादिः ।