SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 10 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने अथ व्यञ्जनान्ताः ८ गर्मत सवर्णम सरघा च, द्रवनामत्वान्नपसकत्वे प्राप्तऽस्य पाठः, पाद: चरणः, अदन्तोऽप्ययम्, अश्मा पाषाणः, उपलक्षणत्वाद् वेमलोऽपि । आत्मा शरीरं स्वभावश्च, पाप्मा पापं रोगश्च, स्थेमा स्थर्यम्, इमन्नन्तत्वादेव सिद्धे द्विस्वरं मन्नकर्तरि इति क्लीबत्वबाधनार्थमस्य पाठः। ऊष्मा संताप: समृद्धिश्च, यक्ष्मा क्षयरोगः, तदन्तत्वाद् राजयक्ष्मापि। अश्मादीनामन्नन्तत्वेन क्लीबत्वे प्राप्ते वचनम्, एवं शेषेष्वपि लिङ्गषु स्वरव्यञ्जनान्तक्रमो ज्ञेयः ।। १७ ।। ॥ इति पुंल्लिङ्गस्यावचूरिः । स्त्रीलिङ गं योनिमद्वम्री-सेनावल्लितडिन्निशाम् । वीचितन्द्राऽवटुग्रीवा - जिह्वाशस्त्रीदयादिशाम् ॥ १ ॥ नामेति स्मर्यते, योनिमदादीनां नाम स्त्रीलिङ गं भवति-पुरुषी, स्त्री, रामा, वामा, हस्तिनो, वशा, वृषो, अश्वा, मकरी, मत्सो, मयूरी इत्यादि । वम्री नाम उपदेहिका इत्यादि । सेनानाम-चमूः, पृतना, वाहिनी इत्यादि । वल्लिनाम-लता, प्रतानिनी, वल्लरी इत्यादि । वल्ली अजमोदायां तु अस्य बाहुलकात् स्त्रीत्वम् । तडिन्नाम-शंबा, चपला, चरा, इत्यादि । निशानाम तुङ्गी, तमी, निट शब्दोऽप्यस्ति निशावाची। वीचिनाम-वीचिः, उत्कलिका, लहरो, भङ्गिः इत्यादि 'तरङ्गोल्लोलकल्लोलानां पुंस्त्वमुक्तम् । तन्द्राशब्देनालस्यनिद्रे गृह्यते। अवटुनाम घाटा, कृकाटिका इत्यादि, अवटोस्तु स्त्रीपुसत्वम् । ग्रीवानाम--ग्रीवा, अयं तच्शिरायामपि। जिह्वानाम रसज्ञेत्यादि । शस्त्रीनाम शस्त्री, असिपुत्री इत्यादि । दयानाम-दया, करुणा इत्यादि । दिग्नाम-पाशा, ककुप् इत्यादि ।। १ ।। शिशपाद्या नदीवीणा-ज्योत्स्ना-चीरीतिथीधियाम् । अङ गुलीकल - शिक्वङ गु - हिङ गुपत्रीसुरानसाम् ॥ २ ॥ ___शिशपादिगणो नद्यादीनां नाम च स्त्रीलिङ्ग भवति । शिशपादि - शिशपा, वीरुत्, पाटला, विडा, फल्गुका, स्नुकस्नुह्यौ, निर्गुण्डी, झण्टी, जम्बूः, श्रीपर्णी, भद्रपर्णी, बदरी इत्यादिगणपाठः। नदोनाम-नदी, धुनी, निम्नगा इत्यादि । वीणानाम-घोषवती, तद्भेदोऽपि, विपञ्ची इत्यादि । ज्योत्स्नानाम चन्द्रिका, कौमुदी इत्यादि । चीरी जीवविशेषः, तिथीति ङ् यन्तं पदम्, प्रतिपदाद्याः, द्वितीया, तृतीया, चतुर्थी इत्यादि यावत् पञ्चदशी, सैव पूर्णचन्द्रा राका, पूर्णिमा; न्यूनचन्द्राऽनुमतिः अमावस्या इत्यादि । धीनाम-धिषणा, पण्डा । अङ गुलीनाम अङ गुली करशाखा, कलशी, गर्गरी, क्वङ गर्धान्यविशेषः, हिङ गपत्री गल्मभेद: सरा वारुणी नसा नासिका ।। २ ।।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy