________________
लिङ्गानुशासनम्
[ 9
कुश: योक्त्रम् द्वीपश्च, उड्डीशो ग्रन्थविशेषः, हरे तु देहिनामत्वात् पुस्त्वं
पुरोडाशो हविभदे चमस्यां पिष्टकस्य च ।
रसे सोमलतायाश्च, हुतशेषे च पुंस्यपि ॥ अथ षान्तः वृषः गवादिः, वतिनामासनं वृषी। अथ सान्तः कुल्मासः अर्धस्विन्नो माषादिः, अन्ननामत्वात् क्लीबत्वे प्राप्तेऽस्य पाठः, मूर्धन्योपान्त्योऽप्ययम् । अथ हान्ताः ४ निष्कुहः कोटरम्, ये तु टान्तमाहुस्तन्मते टान्तत्वात् पुस्त्वम्, अह इति 'द्विगोः' [७. १. ११४.] इति 'अह्नः' [७. ३. ११६.] इति च कृतसमासान्तोऽहन्शब्दः, द्वयोरह्नो: समाहारो द्वयहः, त्र्यहः, पञ्चाहः, सप्ताहः । द्विगुरन्नेति स्त्रीनपुसकत्वे परमाह उत्तराह इत्यादौ परवल्लिङ्गताप्राप्तौ वचनम्, सुदिनैकाभ्यां क्लीबत्वम्, पुण्याहस्य तु पुनपुसकत्वम् । नियूहः शेखरे नागदन्ते निर्यासेऽपि, कलहः खड्गकोशे भण्डने च । अथ क्षान्तः,-पक्ष: पिच्छम्, युद्धपिच्छनामत्वात्क्लीबत्वे प्राप्ते वचनं, प्रतिज्ञार्थादौ च पक्षस्य षान्तत्वादेव पुस्त्वम् । अथेकारान्ताः,-राशिर्मेषादिः पुनश्च, वराशि: स्थूलशाट:, वस्त्रनामत्वात् क्लाबत्वे प्राप्तेऽस्य पाठः, ऋषिर्वेदविशिष्टादौ ।। १५ ।।
दुन्दुभिर्वमतिवृष्णि पाण्यविज्ञातिरालिकलयोऽञ्जलि रिणः । अग्निवह्निकृमयोंऽह्रिदीदिविग्रन्थिकुक्षितयोऽर्दनिर्ध्वनिः ॥ १६ ।।
दुन्दुभिर्भेरीविशेषे, दैत्ये तु सिद्धमेव प्रक्षे स्त्रीत्वम्, वमतिर्वान्तिः, वृष्णि: कुलविशेषः मेषश्च, पाणिः हस्तः, अविः मूषककम्बलः, ज्ञातिः स्वजनः, रालिः कलहः, कलिः, अन्त्ययुगम्, अञ्जलिः पाणिपुटः, घृणिरभीशुः, अग्निः कृशानुः, वह्निः स एव, कृमिः कीट:, अर्थप्राधान्यात् क्रिमिरपि। अंह्निः पादः, अर्थप्राधान्यादङ घ्रिरपि, दीदिविः प्रोदनम्, अर्थप्राधान्यात् कुरुश्च. ग्रन्थिः रज्ज्वादिवेष्टनबन्धः कुक्षिर्जठरम्, टतिश्चर्म चर्मप्रसेवकश्च, अर्दनिः अग्निः, ध्वनिः प्रतीयमानोऽर्थः, वृष्णिघृष्ण्योर्ण्यन्तत्वात् अग्निवह्नयोश्च न्यन्तत्वात् अर्दनेरन्यन्तत्वात् कृमेय॑न्तत्वात् पाणिकुक्ष्यं ह्रीणां प्राण्यङ्गवाचीदन्तत्वात् स्त्रीत्वे दीदिवेरन्ननामत्वाद् रालेश्च युन्नामत्वात् क्लीबत्वे प्राप्ते वचनम् ।। १६ ।।
गिरिशिश्रुजायुको हाहाहूहूश्च नग्नहूर्गमुत् । पादश्मानावात्मा पाप्मस्थेमोष्मयक्ष्मारणः ॥ १७ ॥
॥ इति पुंलिङ गं समाप्तम् ॥ ___ गिरि: कन्दुकः, शिश्रुः श्रोत्रम्, जायुरौषधम्, कर्पू: कराषाग्निः, हाहाहूहूरित्यखण्डं नाम देवगायनवाचि, केचित् खण्डयन्ति, अव्ययत्वादलिङ्गाविति केचित्, गन्धवौं च हाहा हूहूरिति तु लक्ष्यम्। * एकदेशविकृतस्यानन्यत्वात् * अर्थप्राधान्याद् वा निर्देशस्य तदपि संगृहीतम्, देहिनामत्वादेव पुस्त्वसिद्धौ विमतिज्ञापनार्थं हूहूरित्यस्य कृत इति स्त्रीत्वबाधनार्थम्, नग्नहूषिदलिन्यादिबीजम्, अर्थप्राधान्यान्नग्नहुरित्यपि, नग्नान् ह्वयतीति व्युत्पत्तिप्राधान्ये त्वाश्रयलिङ गता।