________________
लिङ्गानुशासनम्
[
11
रास्नाशिलावचाला - लाशिम्बाकृष्णोष्णिकाश्रियाम् । स्पृक्कापण्यातसीधाय्यासरघारोचनाभुवाम् ॥३॥ हरिद्रामां सिदूर्वाऽऽलू - बलाकाकृष्णलागिराम् ।
इत्तु प्राण्यङ गवाचि स्यादीदूदेकस्वरं कृतः ॥ ४ ॥
रास्ना औषधीविशेषः, शिला, मनः शिला वचा शतपविका, गोलोमी, जीवा षडग्रन्था, उग्रगन्धा इत्यादि। लाला सृणीका, शिम्बा बजिकोशी, कृष्णा कृष्णजीरकी राजिका च पिप्पल्यां वल्लिनामत्वात् सिद्धमेव, उष्णिका यवागूः, श्री:-लक्ष्मी:, कमला, पद्मा, पद्मवासा, हरिप्रिया, क्षीरोदतनया, मा, रमा, इन्दिरा इत्यादि।
स्पृक्का गन्धद्रव्यविशेषः तन्नाम, मरुन्माला, पिशुना, पृक्का, देवीलता इत्यादि । पण्यानाम पण्या, कटती, सुवर्णलता, ज्योतिष्का इत्यादि । अतसीनाम कृष्णप्रिया, चण्डिफा, मसृणा, क्षुमा, उमा, इत्यादि । घाय्यानाम सामिधेनी ऋक् इत्यादि । सरघानाम क्षुद्रा, मधुमक्षिका इत्यादि । रोचनेति गोरोचना वंशरोचना च गृह्यते । तत्राद्यानाम 'वन्दनीया तु रोचना, भूतघ्नी भूतनाशिनी ।' वंशरोचना तु वांशी तु काक्षीरी तुका शुभा इत्यादि ।
भूनाम भूः, भूमिः, पृथ्वी, मही इत्यादि। हरिद्रा पीतिका, मांसिगंधद्रव्यविशेषः, दूर्वा हरितालो, पाल: कर्करी गलन्तिका च, बलाका पुध्वजेऽपि स्त्रीत्वमेव, बलाका विसकण्टिका, कृष्णला गुञ्जा, गीर्वाक् । प्राण्यङ गवाचि इकारान्तं नाम स्त्रीलिङ गम् । गोधिर्ललाटम्, कटिः पालि: इत्यादि। इदिति किम् ? कर्णः । प्राण्यङ गवाचीति किम् ? नाभि , क्षत्रियः, प्राण्यङ गवाचिनस्तु स्त्रीपुसत्वम्, चक्रपिण्डिकायां तु स्त्रीत्वम्, ईकारान्तमूकारान्तं चैकस्वरं स्त्रीलिङ गम्। ह्रीः, प्रीः, श्रीः, भ्र :, स्र :, दूः, ज्ः। एकस्वरमिति किम् ? स्वयंभूब्रह्मा। नी:, लूरित्यादौ तु गुणवृत्तित्वादाश्रयलिङ गता, कृत्सम्बन्धिनौ यावीदूतौ तदन्तं नाम स्त्रीलिङ गं अनेकस्वरार्थ प्रारम्भः लक्ष्मीः, पपी:, ययीः इत्यादि । यवागूः कुकूः, कच्छूः, अजू, तनूः इत्यादि ।। ३-४ ।।
पात्रादिजिता - दन्तोत्तरपदः समाहारे ।
द्विगुरन्नाबन्तान्तो, वान्यस्तु सर्वो नपुंसकः ॥ ५ ॥ पात्रादिवजितमकारान्तमुत्तरपदं यस्य स द्विगु: समाहारे स्त्री, पञ्चानां पूलानां समाहारः पञ्चपूली। पात्रादिवजित इति किम् ? द्विपात्रम्, द्विमासम् त्रिभुवनम् , चतुर्युगम् । द्वित्रिचतुर्यः परः पथः, त्रिपुरमित्यादि। अदन्तेति किम् ? पञ्चसमिति, त्रिगुप्ति, पञ्चकुमारि, दशकुमारि, अन्त्ययोः स्त्रीपुसत्वमपीत्येके, उत्तरपदेति किम् ? पञ्च गावः समाहृताः पञ्चगवम्, एवं दशगवं, सप्तभूमं, अत्र द्विगुरदन्तो नोत्तरपदम् ।