SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ 4 ] श्री सिद्धहेमचन्द्रशब्दानुशासने श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क, मन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमाद्रिविषयाशुगशोरणमास, धान्याध्वराग्निमरुतां सभिदां तु नाम ॥ ३ ॥ श्वेतनाम, श्वेतः, कपर्दः । प्लवनाम, कोलः, भेल, उडुपस्तु पुंक्लीबः । आत्मनाम, जीव:, पुङ्गलः, क्षेत्रज:, प्रधाने त्वाश्रयलिङ्गता पुरुषः इत्यादि । मुरजो मर्दलस्तन्नाम मृदङ्गः, मुरजभेदोऽपि मुरजः । असिनाम निस्त्रिशः, खड्गः, ऋष्टेस्तु पुंस्त्रीत्वम् । कफः श्लेष्मा खेटस्तु पुंक्लीबः । अभ्र ं मेघः, अभ्रस्तु पुक्लीबः । पङ्को निषद्वरः, पङ्कजम्बालौ पुंक्लीबो । मन्थः, मन्थानः । त्विट्कान्तिः अंशुः प्रयं रवावपि प्रभीषुः मूर्धन्योपान्त्योऽयम् । यूखः । प्रयं शोभाज्वालयोरपि बाहुलकात् पुंसि रुचित्वितिदीघतयः स्त्रीलिङ्गाः, रोचिः शोचिषी तु द्विस्वरसन्तत्वात् क्लोबे, गोमरीचिप्रश्नयस्तु पुंस्त्रीलिङ्गाः, रश्मि:, श्रयं रज्जौ स्त्रियाम् । जलधिः, अर्णवः, समुद्रः, महाकच्छः । पश्चिमाशापती तु देहिनामत्वात् पुंसि तत्प्रभेदनाम क्षीरोदः, लवणोदः इत्यादि शेवधिः, निधिः तत्प्रभेदः -- 'महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव ।। १ ।। पद्मस्य विभबिन्दो नपुंसकत्वम् । देही, जन्तुः, जन्मी, जन्मशब्दोऽकारान्तोऽप्यस्ति, जन्तुः पुनपुंसकः तत्प्रभेदः ब्राह्मण, क्षत्रिय, वैश्य, शूद्रः इत्यादि । देवः सुर: इत्यादि । तत्प्रभेदः इन्द्रः, चन्द्रः इत्यादि । माननाम तूल:, कुडवः, प्रस्थ: पुंनपुंसकः, आढकस्तु त्रिलिङ्गः । द्रुमनाम अंह्निपः, वनस्पतिः । विषयनाम विषय इन्द्रियग्राह्यो गन्धशब्दस्पर्शादिः । देशश्च तुबरराव कषायकोलाहलनीलानां पुक्लीबत्वं, रूपस्य तु नपु ंसकत्वम् । आशुगनाम पतत्त्रिः शरबारणकाण्डाः पुरंनपुंसकाः । इषस्त्रिलिङ्गः । धान्यनाम व्रीहिः स्तम्बकरिः । धान्यसोत्यशस्यानां संयुक्तयान्तत्वेन नपुंसकत्वम् । भाषा पुंनपुंसकौ । श्राढकीप्रियंगू स्त्री, मसूर : स्त्रीपु सः, शरणं नपुंसकम् । 1 अध्वरः, मख:, यज्ञः । वितान - वाजपेय - राजसूयानां यज्ञविशेषारणां पुंनपुंसकत्वम् । बहिः सत्रयोस्तु नपुंसकत्वम् । अग्निनाम भास्करः, प्राशुशुक्षरिणः प्रयमण्यन्तोऽपि बाहुलकात् पुंसि । मरुन्नाम वातः, समानस्तु पुंनपुंसकः ॥ ३॥ अध्वरनाम बर्होऽच्छदेहिर्वप्रे व्रीह्यग्न्योर्हायन - बहिषौ । 1 मस्तुः सक्तौ स्फटिकेऽच्छो नीलमित्रौ मरणीनयोः ॥ ४ ॥ छदः पर्णं पिच्छं च ततोऽन्यस्मिन् बर्हः पुंसि, बर्हः परिवारः तयोस्तु पुंनपुंसकः । वप्रे केदारेsहिः पुंसि, सर्पे तु पुंस्त्री । हायनबहिषौ व्रीहावग्नौ च पुंसि । वर्षरश्म्योश्च भेदेपुंनपुंसकौ । बर्हिषाऽग्निनामत्वादेव सिद्धे द्विस्वरसन्तक्लीबत्वबाधनार्थम् । सक्तो धानाविकारे मस्तु:, अन्यत्र तु स्त्वन्तत्वात् क्लीबत्वम् । स्फटिकेऽच्छ:, श्रयमव्ययमाभिमुख्येऽप्यस्ति । मणौ रत्ने इने सूर्ये क्रमेण नील
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy