________________
लिङ्गानुशासनम्
[
5
मित्रौ पुसि, नोलान्तत्वान्महीनीलोऽपि, मित्रस्य देहिनामत्वादेव सिद्धे नियमार्थं, तेन सुहृदि संयुक्तरान्तत्वेन क्लीबत्वम् ।। ४ ।।
कोरणेऽस्रश्चषके कोशस्तलस्तालचपेटयोः ।
अनातोद्ये घनो भूम्नि दारप्राणासुवल्वजाः ॥ ५ ॥ कोणेऽस्रः पुसि, कोणः अस्रः, अन्यत्रेदमस्र रुधिरम्, संयुक्तरान्तत्वान्नपुसकत्वम् , केशे त तन्नामत्वादेव पूस्त्वम् । चषके कोश: पुसि, कोशश्चषकः, प्रत्याकारे शम्बायां च त्रिषु, भाण्डागारादौ तु पुनपुसकः। तालो वृक्षविशेषो वितस्तिश्च तयोश्चपेटे च तलः पुसि, तलान्तत्वात् प्रतलोऽपि चपेटे। प्रातोद्यमुपलक्षणं नृत्यस्य, आतोद्यान्मध्यमनृत्ताच्चान्यत्र घनः पूसि। दाराः कलत्रम्, प्राणा असवो जीवितं च, असवः प्राणा: वल्वजा उपलाख्यस्तृणभेदः, एते पुंलिङ गाः, भूम्नि बहुत्व एव, क्वचिदेषामेकत्वमपि, असुसाहचर्यात्तद्वाचिन एव प्राणस्य बहुत्वम्, पुस्त्वं तु णान्तत्वादेव सिद्धम् ।। ५ ।।
कान्तश्चन्द्रार्कनामायः परो यानार्थतो युगः ।
यश्च स्यादसमाहारे द्वन्द्वोऽश्ववडवाविति ॥ ६ ॥ चन्द्रार्कनामभ्योऽयः शब्दाच्च परः कान्तो यानार्थवाचिनः परो युगश्च पुलिङ्गः, चन्द्रकान्तः, सूर्यकान्तः, अयस्कान्त: लोहाकर्षणः (यूपयुग्मयोरपि) यानयुगः, शकटयुगः, यश्चासमाहारे इतरेतरयोगे द्वद्वोऽश्ववडवाविति स पुसि, अश्वश्च वडवा चेमावश्ववडवौ, द्विवचनमतन्त्रम्, तेनेमेऽश्ववडवाः, अश्ववडवान पश्य, 'अश्ववडवपूर्वापराधरोत्तरा' [३.१.१३१] इति निर्देशाद् ह्रस्वत्वम्, असमाहार इति किम् ? अश्ववडवम् । द्वन्द्व इति किम् ? अश्वो वडवाऽस्याश्ववडवमुन्मुग्धं कुलं, अश्ववडवा स्त्री, द्वन्द्वस्यापरवल्लिङ्गत्वप्राप्तौ वचनम् ।। ६ ॥
वाकोत्तरा नक्तकरल्लकाङ्का, न्युङ खोत्तरासङ्गतरङ्गरङ्गाः । परागपूगौ सृगमस्तुलुङ गकुडङगकालिङगमतङ्गमङ गाः ॥ ७ ॥
अतः परं स्वरान्तक्रमेण शब्दा उदाह्रियन्ते, तत्र स्वरान्तेषु ककारोपान्त्यादिक्रमेणाकारान्ता उदाह्रियन्ते, वाकोत्तरपदा नक्तकादयश्च शब्दा: पुलिङ्गाः, अनूच्यत इति अनवाक: ऋगयजः समहात्मकं वचनं, धान्तत्वादेव. सिद्ध नियमार्थं वचनम 'भाव एव पुस्त्वमिति' तेन वङ्क काष्ठमित्यादौ भावादन्यत्र घनन्तस्याश्रयलिङ्गता, अथवा अनुगतो वाकोऽनेन तदनुवाक इति अन्यपदार्थत्वेऽपि पुस्त्वार्थम् । नक्तको गलनम्, रल्लकः पक्ष्मकम्बलः, अङ्कः समीपन्, नक्तकरल्लकयोर्वस्त्रनामत्वेनाङ्कस्यान्तिकनामत्वेन क्लीबत्वे प्राप्ते वचनम् ।
न्यूङ खाः षडोङ कारा:, सम्यगमनोज्ञे त्वाश्रयलिङ्गः, उत्तरासङ गः वैकक्ष्यम, तद्वाची अर्थप्राधान्यात् कम्बलोऽपि । तरङग: ऊमिः, रङ गो नर्तनभूमिः, परागो