________________
[ पाद. ४. सू. १२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [४०३ व्याघ्रात् भयं चैत्रस्य मैत्रात्, भार्या राज्ञः, पुरुषो देवदत्तस्य, सक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे इति, नामधातुः, पुत्रमिच्छति पुत्रीयति, श्येन इवाचरति श्येनायते । समर्थ इति किम् ? पश्यति पुत्रमिच्छति सुखम् कृत्-कुम्भं करोति कुम्भकारः, समर्थ इति किम् ? पश्य कुम्भं करोति कटम् । तद्धितः, उपगोरपत्यमोपगवः । समर्थ इति किम् ? गृहमुपगोरपत्यं तव । उपपदविभक्तिः नमो देवेभ्यः, अभिजानासि देवदत्त काश्मीरेषु वत्स्यामः, उपाध्यायश्चेदागच्छेदाशंसे युक्तोऽधीयीय । समर्थ इति किम् ? इदं नमो देवाः शृणुत, देवदत्त मातरं स्मरसि, अवसाम दीर्घ मगधेषु । युष्मदस्मदादेशः, धर्मस्ते स्वं धर्मो मे स्वम् । धर्मो वः स्वं धर्मो नः स्वम् । समर्थ इति किम् ? आदनं पच, तव भविष्यति, मम भविष्यति । प्लुत,-अङ्ग कूज ३ इदानीं ज्ञास्यसि जाल्म । समर्थ इति किम् ? अङ्ग कूजत्ययमिदानीं ज्ञास्यति जाल्मः । पदग्रहणाद्वर्णविधिरसामर्थ्येऽपि भवति, तिष्ठतु दध्यशान त्वं शाकेन । तिष्ठतु कुमारीच्छत्रं हर देवदत्तेति । यत्वं द्वित्वं च भवति । एवं समासनामधातुकृत्तद्धितेषु वाक्ये व्यपेक्षा वृत्तावेकार्थीभावः। शेषेषु पुनर्व्यपेक्षैव सामर्थ्यं भवति । ननु च राज्ञः पुरुषमानयेत्युक्ते योऽर्थे आनीयते राजपुरुषमानयेत्यप्युक्ते स एव तत्कोऽत्र व्यपेक्षैकार्थीभावयोविशेष: । उच्यते, संख्याविशेषो व्यक्ताभिधानमुपसर्जनविशेषणं चयोगश्चेति । तत्र राज्ञः पुरुषः राज्ञोः पुरुषः राज्ञां पुरुषः इति वाक्ये संख्याविशेषो भवति, समासे न भवति । राजपुरुषः । वाक्ये हयुपसर्जनानि विभक्तार्थाभिधायित्वात्संख्याविशेषयुक्त स्वार्थ प्रतिपादयन्ति । समासेऽन्तर्भूतस्वार्थं प्रधानार्थमभिदधतीत्यभेदकत्वसंख्यां गमयन्ति । संख्याविशेषाणामविभागेनावस्थानमभेदैकत्वसंख्या ॥
'यथौषधरसाः सर्वे मधुन्याहितशक्तयः । अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः' ।१। विभक्तिवाच्यैव तु संख्या वृत्तौ निवर्तते नामादिगम्या तु न निवर्तते । यथा द्विपुत्रः पञ्चपुत्र इत्यादौ नामार्थ एवं संख्याविशेषः । तावकीनो मामकीन इत्यादेशाभिव्यङ्गयमेकत्वम् । शौर्षिकः मासजात इति परिमाणस्वाभाव्यादेकत्वसंख्यावगमः । कारकमध्यं व्यञ्जनमध्यमित्यादौ मध्यान्यथानुपपत्त्या द्वित्वावगमः । यत्रापि वृत्तौ विभक्तटुंब नास्ति दास्याः पुत्र देवानांप्रियः आमुष्यायणः अप्सव्यः गोषुचरः वर्षासुज इति तत्रापि संख्याविशेषो नास्ति सामान्येन विशेषणमात्रप्रतीतेः । अत एव वृत्तौ संख्याभेदाभावात्स्वभावतो