________________
४०२ ]
बृहद्दृत्ति-लघुन्याससंवलिते [पा० ४. सू० १२२ ] सर्वः पदविधिः समर्थो वेदितव्यः । समर्थानां पदानां विधिर्वेदितव्य इत्यर्थः । तच्च सामर्थ्य व्यपेक्षा एकार्थीभावश्च । अत्र ब्यपेक्षायां संबद्धार्थः संप्रेक्षितार्थो. वा पदविधिः साधुर्भवति । एकार्थीभावे तु विग्रहवाक्यार्थाभिधाने यः शक्तः संगतार्थः संसृष्टार्थो वा पदविधिः स साधुर्भवति, अत्र च पदानि उपसर्जनीभूतस्वार्थानि निवृत्तस्वार्थानि वा प्रधानार्थोपादानात् व्यर्थानि अर्थान्तराभिधायीनि वा भवन्ति । पदविधिश्च समासनामधातुकृत्तद्धितोपपदविभक्तियुष्मदस्मदादेशप्लुतरूपो भवति । तत्र समासः, द्वितीया 'श्रितादिभिः' । धर्म श्रित: धर्मश्रितः, 'तृतीया तत्कृतैः' । शङकुलया कृतः खण्डः शकुलाखण्डः । 'चतुर्थी प्रकृत्या' यूपाय दारु यू पदारु, 'पञ्चमी भयाद्यैः' वृकाद्भयं वृकभयम्, 'षष्ठययत्नाच्छेषे' राज्ञः पुरुषः राजपुरुषः, 'सप्तमी शौण्डाद्यः' अक्षेष शौण्डः अक्षशौण्डः, 'विशेषणं विशेष्येणैकार्थं कर्मधारयश्च' नीलं च तदुत्पलं च नीलोत्पलम्, एषु पूर्वोत्तरपदयोर्वाक्यावस्थायां परस्पराकाङ्क्षालक्षणा व्यपेक्षा। वृत्त्यवस्थायां तु पृथगर्थानां सतामेका भाव इति । तथा हि-धर्ममित्येतत्साधनस्वात्साध्यभूतां क्रियामपेक्षते । श्रित इत्येतदपि श्रयणक्रियोपसर्जनकर्तृवाचि स्वक्रियाविषयं साधनमपेक्षते, तयोश्च परस्परसंसर्गात् मूछितावयव इव वृत्तावेकार्थीभावो भवति ।
धर्मं श्रितो धर्मश्रितश्चैत्र इति, एवं शङकुलया कृतः खण्डः शङकुलाखण्ड इति, कर्तृकर्मणोर्गम्यमानकरोतिक्रियाकृता वाक्ये व्यपेक्षा । वृत्तावेकार्थीभावः, एवं चतुर्थीसमासादावपि यूपायेत्यादि सामान्यमवच्छेदाय भेदानाकाङ्क्षति कि यूपाय गच्छत्यागच्छति पुष्पं दारु वेति । दार्वपि यूपाय गृहाय दाहाय वेति भेदानाकाङ्क्षति । एवं सर्वत्र उपसर्जनानां प्रधानानां च परस्परमाकाङ्क्षावतां कचित्प्रकृतिविकारभावलक्षण : कचिदवध्यवधिमद्धावात्मकः कचित्स्वस्वामिभाव: कचिद्विषयविषयिभावरूपः संबन्धो वाक्ये व्यपेक्षा, वृत्तौ त्वेकार्थीभावः । एवं नीलमित्येतद्विशेषणं गुणत्वात् द्रव्यमाकाङ्क्षति । उत्पलमित्येतदपि सर्वोत्पलावग्रहरूपेण प्रवृत्तं सद्विशेष्यत्वाद्विशेषणं गुणमाकाङ्क्षति । वृत्तौ पुनरेकार्थीभावेन पांसूदकवदविभागापन्नो तावुभावप्यर्थावेकस्मिन्नधिकरणे मूछिताविव भवतः । नीलं च तदुत्पलं च नोलोत्पल मिति, तदेतत्सामर्थ्यमविशेषोक्तमपि लोकव्यपेक्षया वृत्त्यवृत्त्योः स्वभावेन विभक्तमवतिष्ठते । यत्र त्वसामर्थ्य तत्र समासो न भवति । पश्य धर्मम् श्रितो मैत्रो गुरुकुलम्, कि ते शङ्कुलया खण्डो मैत्र उपलेन, गच्छ यूपाय दारु शोभनं शैले, निवर्तस्व