________________
। पाद. ४ सू. १२१-१२२] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [४०१ (१-४-५५) इत्यस्य तु महान्ति यशांसि । इहोभयं प्राप्नोति वनानि मधुनि,-तत्र परत्वाच्छिरेव भवति । अयं तावदेकस्य द्विकार्ययोगे स्पर्ध उक्तः । अनेकस्याप्यसंभवे सति भवति । 'ई: वोमवरुणेऽग्नेः' [३-२-४२] इत्यस्यावकाशोऽग्नीवरुणो, 'देवतानामात्वादो' (७-४-२८) इति वृद्धेरवकाश आग्नावैष्णवं हविः, इहोभयं प्राप्नोति । आग्निवारुणीमनड़वाहीमालभेत । परत्वात्तु वृद्धिर्भवति । अत्र ह्यग्नेरीत्वं वरुणशब्दस्य च वृद्धिरिति नैको द्विकार्ययुक्तः । असंभवस्त्वस्ति वृद्धो सत्याम् ' इद्धिमत्यविष्णौ ' [३-२-४३] इति अग्नेरीत्वापवाद इर्भवति, परस्परप्रतिबन्धेनाप्रवृत्तौ पर्याये वा प्राप्ते वचनम् ।११९। ___ न्या० स० स्पर्धे०-एकत्रेनि एकत्र एकस्मिन् स्थानिनि । उपनिपातः प्रसङ्गो द्वयोर्विध्योरित्यर्थः । अनेकत्र चेति अनेकस्मिन् स्थानिनि उपनिपातो द्वयोर्विध्योरित्यर्थः । आसन्नः ॥७. ४. १२० ॥
इह आसन्नानासन्नप्रसङ्गे यथास्वं स्थानार्थप्रमाणादिभिरासन्न एव विधिर्भवति । तत्र स्थानेन, दण्डाग्रम्, क्षुपाग्रम्, कण्ठययोरकारयोः कण्ठ्य एवाकारो दीपो भवति । अर्थेन, वातण्ययुवतिः, दारदवृन्दारिका, अत्र वतण्डीशब्दस्य दरच्छब्दस्य च 'पुंवत्कर्मधारये' [३-२-५७ | इति वद्भावे कर्तव्ये अर्थत आसन्मो वातण्डयभावो दारदभावश्च भवति । प्रमाणेन, अमुष्मै । अमूभ्याम् ‘मादुवर्णोऽनु' (२-१-४७) इति मात्रिकस्य मात्रिको द्विमात्रस्य च द्विमात्रः ।१२०॥
न्या० स० आस०-दारदभावश्चेति न तु वतण्डदरद्भावः पुंस्त्वं तु तस्यापि विद्यत एव परमनासन्नो गोत्रानभिधानात् । संबन्धिनां संबन्धे ॥ ७. ४. १२१ ॥
संबन्धिशब्दानां यत्कार्यमुक्त तत्संबन्ध एव सति भवति नान्यथा । 'श्वशुराद्यः'। श्वशुरस्यापत्यं श्वशुर्यः । संज्ञाशब्दात्तु इव । श्वारिः । 'मातृपितुः स्वसुः' (२-३-१८) मातृष्वसा, धान्यमातुः स्वसुस्तु न भवतिमातृस्वसा ।१२१॥
समर्थः पदविधिः ॥ ७. ४. १२२ ॥ ___ समर्थपदाश्रितत्वात्समर्थः। पदसंबन्धी विधिः पदविधिः, तेन यः पदाद्विधिः यश्च पदे यश्च पदस्य पदयोः पदानां वा स सर्वः पदविधिरेव,