________________
४०४ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पाद. ४ सू. १२२ ] निवृत्ता विभक्ति पा अन्वाख्यायते, अलुप्समासे तु शब्दान्तरं विभक्त्यन्तप्रतिरूपावयवमनेनोपायेन प्रतिपाद्यते, तथा वाक्ये व्यक्ताभिधानं भवति । ब्राह्मणस्य कम्बलस्तिष्ठति । समासे पुनरव्यक्त' ब्राह्मणकम्बलस्तिष्ठतीति, संदिह्यतेऽत्र षष्ठीसमासो वा संबोधनं वेति । किंचित्पुनरव्यक्तं वाक्ये । यथार्धं पशोर्देवदत्तस्येति । पशुगुणस्य वा देवदत्तस्य यदर्धं यो वा संज्ञीभूतो पशुस्तस्य यदर्धमिति । तच्च समासे व्यक्तम् अर्धपशु देवदत्तस्येति, तथा वाक्ये उपसर्जनविशेषणं भवति । ऋद्धस्य राज्ञः पुरुषः, समासे न भवति । राजपुरुषः । यथाहु:- ' सविशेषणानां वृत्तिर्न वृत्तस्य वा विशेषणं न प्रयुज्यत इति' । विशेषणयोगे हि सापेक्षत्वेनागमकत्वात्सामर्थ्यं न भवति । यत्र च कचिद्विशेषणयोगेऽपि गमकत्वं तत्र भवत्येव समासः यथा देवदत्तस्य गुरुकुलम्, यज्ञदत्तस्य दासभार्या । यदाह
संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रवर्तते ।
"
स्वार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते |१|
तथा वाक्ये चयोगो भवति स्वचयोगः स्वामिचयोगश्च । राज्ञो गौश्वाश्वश्व पुरुषश्च । चैत्रस्य मैत्रस्य मित्रस्य च गौः । समासे न भवति । राज्ञो गोश्वपुरुषाः । चैत्रमैत्रमित्राणां गौरिति । यदि समर्थः पदविधिः कथमसामर्थ्ये सूर्यमपि न पश्यन्त्य सूर्यं पश्या राजदाराः, पुनर्न गीयन्तेऽपुनर्गेयाः श्लोकाः, श्राद्धं न भुङ्क्तेऽश्राद्धभोजी, अलवणभोजी, सर्वश्वर्मणा कृतः सार्वचर्मीणो रथः, कृतः पूर्वं कटोऽनेनेति कृतपूर्वी कटम् इत्याद्या वृत्तयो भवन्ति । किं हि वचनान्न भवति । १२२ ।
न्या० स० सम० – व्यपेक्षेति परस्पराका क्षेत्यर्थः सा च वाक्ये संभवति, एकार्थीभावस्तु समासे । संबद्धार्थ इति संबद्धोऽर्थो यस्य यत्र झटित्येव पदानामन्वयः प्रतीयते राज्ञः पुरुष इत्यादी संबद्धार्थः पदविधिः ।
संप्रेक्षितार्थं इति संप्रेक्षितः कष्टकल्पनया प्रतीतोऽर्थो यत्र यथा -
राजोत्पले हरिभुजामिह के शवस्य, यस्योरसीन्दुरदनं च जटाकलापे । शं खाम्बरोऽपि पवनादरिनाथसूनुः,
कान्ता सवोऽगतनया विपुलं ददातु ॥ १॥
इत्यादौ fronto कष्टकल्पनयार्थः प्रतीयते, अस्य काव्यस्य व्याख्या -
यस्योरसि हरिभुजां वायुभुजां सर्पाणां राजा शेषः, यस्य च जटाकलापे इन्दुर्यस्य च शवस्य के मृतकस्य के मस्तके उत्पले निर्मा से अदनं भक्षणं, यस्य च कान्तागतनयाद्रिसुता