________________
[ पाद. ४. सू. १११ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [३९० इति मयट् । पञ्चभिः खारीभिः कृतः पञ्चखारः । ‘कृते' (६-३-१९०) इत्यण् । “द्विगोः '-(६-१-२४) इत्यादिना लुप् । पञ्चेन्द्राण्योऽग्नाय्यो वा देवतास्य पञ्चेन्द्रः, पञ्चाग्निः, अत्र 'देवता' (६-२-१०१) इत्यण् । तस्य लुपि डीप्रत्ययस्यापि लुक् । तस्य स्थानिवद्भावप्रतिषेधात् तत्संनियुक्त आनागम ऐकारादेशश्च न भवति । यविधौ,-कण्डू तिः, कण्डूयतेः क्तावतो लोपः परनिमित्तको ‘य्वोः प्वरव्यञ्जने लुक् ' (४-४-१२२) इति लोपे कर्तव्ये न स्थानिवद्भवति । सूर्येणैकदिक् सौरी बलाका । अत्रकोऽण्यकारलोपो द्वितीयो ङयां तयोः स्थानिवत्त्वाद्यकारस्यानन्तरो ङोर्न भवतीति यलोपो न स्यात् स्थानिवद्भावनिषेधाच्च भवति । विविधौ,-देवयते: कि, दयूः, लवमाचष्टे लवयते: किप् लौः,-अत्र णिलगल्लुची क्विविधाबूटि कर्तव्ये न स्थानिवद्भवतः । द्वित्वविधौ, दद्धयत्र, मद्ध्वत्र,-अत्र यत्ववत्वयोः स्थानिवदभावाभावादेकव्यजनलक्षणं धकारस्य द्वित्वं भवति, द्वित्वस्य संधिकार्यत्वेनैव स्थानिवद्भावप्रतिषेधे सिद्धे द्विग्रहणमसिद्धं बहिरङ्गमन्तरङ्ग इति न्यायबाधनार्थम् । तेनान्तरङ्ग द्वित्वे क्रियमाणे यकारवकारौ परपदाश्रितत्वेन बहिरगावपि नासिद्धौ भवतः । दीर्घविधी, शामंशामम् । अशाभि । शंशामंशंशामम्, अशंशामि,-अत्र णिगन्ताद्यङन्ताच्च णिगि रूणम्बिचोः परयोणिग्लग्यङो लुक च स्थानिवन्न भवति । असदधिकारे विहितो विधिरसद्विधिः तत्र यायज्यतेर्यायष्टिः । नाम्नि तिक्,-पापच्यतेः पापक्तिः । याजयतेर्याष्टिः, पाचयतेः पाक्तिः, अत्राल्लोपणिलोपयोः स्थानिवद्भावप्रतिषेधात् षत्वकत्वे भवतः । देहयतेग्धिः , लेहयतेले ढिः । अत्र णिलोपस्य स्थानिवद्भावप्रतिषेधात् धुनिमित्ते घत्वढत्वे भवतः। प्रतिदीन्वा, प्रतिदीन्वे । अत्र 'अनोऽस्य' (२-१-१०७) इति अलोपो 'भ्वादे मिनः'-(२-१-६३) इत्यादिना दीर्घत्वे स्थानी न भवति । स्क्लुविधेः प्रतिषेधः किम् ? सुकुस्मयतेः क्विप् । सुकः । काष्ठं तक्षयति क्विप्, काष्ठतक् । अत्र संयोगाद्यो: स्कोल कि णिलकः स्थानिवदभावप्रतिषेधाभावात् स्कोलग्न भवति । संयोगान्तलोपस्त्वसद्विधौ स्थानिवदभावप्रतिषेधात् भवत्येव । काष्ठतडिति अण्यन्तस्य । प्रायिकोऽयं निषेधः, तेन मधश्चयतीति क्विप् । मधुक् । अत्र शलोपः सिद्धः । वेतस्वानित्यल्लकः स्थानिवद्भावाभावेऽपि ' न स्तं मत्वर्थे' (१-१-२३) इति पदत्वाभावात्सो रुन भवति । ब्रह्मबन्ध्वौ ब्रह्मबन्ध्व इति ऊङादेशस्य वकारस्य स्थानिवदभावाभावेऽप्यन्तर धस्य तृतीयत्वे लुकि च बहिरङ्गत्वेनासिद्धत्वम्, एवं किर्योः