________________
३९२) बृहपृत्ति-लघुन्यासविलिते [पा० ४. सू० ४१०-१०७ ] पञ्चम्या निर्दिष्टे परस्य ॥ ७. ४. १०४॥ . . . . . .
पञ्चम्या निर्दिष्टे यत्कार्य मुच्यते तत्परस्य स्थाने भवति । अतो ' भिस ऐस्' (१-४-२) वृक्षः, प्लक्षैः । इह न भवति, मालाभिरत्र । निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिह न भवति, दद्भिः । व्यवहितेऽपि हि परशब्दो दृश्यते । यथा महोदयात्परं साकेतमिति । अत इत्यादौ दिग्योगलक्षणा पञ्चमी। तत्र पूर्वस्य च परस्य च कार्यं स्यादिति नियमार्थं वचनम् ।१०४।।
सप्तम्या पूर्वस्य ॥ ७. ४. १०५॥ _सप्तम्या निर्दिष्टे यत्कार्यमुच्यते . तत्पूर्वस्यानन्तरस्य स्थाने भवति । 'इवर्णादेरस्वे स्वरे यवरलम्' (१-२-२१) । दध्वत्र । मध्यत्र । निर्दिष्टाधिकारादिह न भवति । समिदत्र, त्रिष्टुबत्र, व्यवहितेऽपि पूर्वशब्दो दृश्यते । मथुरायाः पूर्वं पाटलिपुत्रमिति । स्वर इत्यादी औपश्लेषिकमधिकरणं पूर्व परं च संभवति तत्र परमेव ग्राह्य मिति नियमार्थं वचनम् ।१०५।
न्या० स० सप्त०-नन्वत्र दध्यत्रेत्यादौ सूत्रमन्तरेणापि यत्वादि सिध्यति, यत 'इवर्णादे' १-२-२१ इत्यत्र स्वरे इत्यौपश्लेषिकमधिकरणं तच्च पूर्व परं च संभवति, ततः स्वरः परो विद्यते, न च मध्विदमित्यादौ पूर्वस्मिन् स्वरे निमित्ते उत्तरस्य इकारस्य यत्वं स्यादित्याशङ्कनीयं यतः प्रकृतेः पूर्व पूर्वमिति न्यायात् पूर्वस्य उकारस्य वत्वं भविष्यति ?
उच्यते, अष्टाभिरष्टप्रिय इत्यत्र पूर्वस्मिन् भिसि परे उत्तरस्याष्टन्शब्दस्य ‘वाष्टनः' १-४-५२ इत्यात्वं स्यादिति सूत्रं सफलम् । षष्ठयान्त्यस्य ॥ ७. ४. १०६ ॥
षष्ठया निर्दिष्टे यत्कार्यमुच्यते तदन्त्यस्य षष्ठीनिर्दिष्टस्यैव योऽन्त्यो वर्णस्तस्य स्थाने भवति न तु समस्तस्य । 'वाण्टन आः स्यादौ ' (१-४-५२) । अष्टाभिः । अष्टासु ।१०६। अनेकवर्णः सर्वस्य ॥ ७. ४. १०७॥ ..
अनेकवर्ण आदेशः षष्ठया निर्दिष्टस्य सर्वस्यैव स्थाने भवति । 'त्रिचतुरस्तिसृचतसृ स्यादौ ' (२-१-१) तिसृभिः, चतसृभिः। सर्वस्येति निर्दिश्यमानापेक्षम्, तेन व्याघ्रपादित्यत्र ‘पात्पादस्याहस्त्यादेः' (७-३-१४८) इति निर्दिष्टस्य पादशब्दस्य भवति न तु समुदायस्य। 'ऋतां विडतीर' (४-४-११७) । किरति । पूर्वस्यापवादोऽयम् एवमुत्तरोऽपि ।१०७।।
न्या० स० अने०-एकशब्दोऽध्यारोपितद्वयादिवृत्तिर्नया न एकोऽनेक इति विगृह्य