SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ · [ पाद ४. सू० १०८ - १०९] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३९३ नञ्समासः क्रियते । तस्मिन् कृते विषयगतायाः संख्याया अग्रहणे स्वसंख्यायाः अपरित्यागादेकवचनोपपत्तिः, अन्ये तु विषयगतां संख्यामाश्रित्य द्विवचनबहुवचनयोरुत्पत्तिमिच्छन्ति अनेकौ अनेके इति, तेन कदाचिदनेको वर्णोऽस्येति बहुव्रीहिः कदाचिदने के वर्णा अस्येति । प्रत्ययस्य ।। ७. ४. १०८ ।। प्रत्ययस्थाने विधीयमान आदेशः सर्वस्य भवति । सर्वे, अष्टी, कति | १०८ | स्थानीवावर्णविधौ ॥ ७. ४. १०९ ॥ 1 स्थानं प्रसङ्गः, सोऽस्यातीति स्थानी आदेशी, आदेशस्थानिनोः पृथक्त्वात्स्थानिकार्यमादेशे न प्राप्नोतीत्यतिदिश्यते । आदेशः स्थानिवद्भवति स्थान्याश्रयाणि कार्याणि प्रतिपद्यते ' अवर्णविधौ ' न चेत्तानि स्थानिवर्णाश्रयाणि भवन्ति, तत्र धातुप्रकृतिविभक्तिकृदव्ययपदादेशा उदाहरणम् । धात्वादेशो धातुवद्भवति । 'अस्ति ब्रुवोर्भू वचावशिति' ( ४ - ४ - १) भूवचो - स्तृजादयो भवन्ति । भविता भवितुम्, भवितव्यम्, वक्ता, वक्तुम्, वक्तव्यम् । प्रकृत्यादेशः प्रकृतिवत् । कस्मै, के, केषाम् । किमः कादेशे कृते सर्वादित्वामायादयो भवति । विभक्त्यादेशो विभक्तिवत् । वृक्षाय, प्लक्षाय, राजा । अत्र स्यादित्वाद्दीर्घत्वं पदत्वं च भवति । पचेयम्, पचेयुः । अत्र आद्यन्तत्वात्पदत्वम् । कृदादेशः कृद्वत् । प्रकृत्य । प्रहृत्य । अत्र क्त्वो यबादेशे ' ह्रस्वस्य तः पित्कृति' ( ४-४ - ११४) इति तोऽन्तो भवति । अव्ययादेशोऽव्ययवत् । प्रस्तुत्य, उपस्तुत्य । अत्र अव्ययस्य' ( ३-२-७ ) इति सेर्लुप् भवति । पदादेश: पदवत्, धर्मो वो रक्षतु, धर्मो नो रक्षतु, पदत्वात्सो रुत्वम् । इवग्रहणं स्वाश्रयार्थम्, अन्यथा स्थानीत्यादेशस्य संज्ञा विज्ञायेत, तेन आहत आवधिष्टेत्यादी 'आङो यमहनः स्वेऽङ्गे च ' ( ३-३-८६ ) इत्यनेनोभयत्राप्यात्मनेपदं भवति । अन्यथा वधेरेव स्यात् । अवर्णविधाविति किम् । वर्णाश्रयो विधिर्वर्णविधिरिति समासस्याश्रयणाद्वर्णात्परस्य विधिर्वर्णे परतो विधिर्वर्णस्य स्थाने विधिर्वर्णेन विधिरप्रधानवर्णाश्रयो वा विधिर्वर्णविधिरिति सर्वत्रावर्णविधाविति प्रतिषेधो भवति । तत्र वर्णात्परस्य विधि: । द्यौः पन्थाः, सः | अत्र औत्वात्वत्यदाद्यत्वेषु कृतेषु स्थानिवद्भावाद्व्यञ्जनात्परस्य सेर्लोपः प्राप्नोति स न भवतीति । वर्णे परतो विधिः । क इष्टः, स उप्तः, अत्र य्वृति कृते 'घोपवति' (१ - ३ - २१ ) इति रोरुत्वम् ' एतदश्च' – (१-३-४६) इत्यादिना सेर्लोपश्च न भवति । वर्णस्य स्थाने विधिः, श्रीर्देवतास्य श्रायं
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy