________________
[ पाद. ४. सू. १०२-१०३ | श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३९१ प्रश्नाचविचारे च संधेयसंध्यक्षरस्यादिदुत्परः ।। ७. ४. १०२ ॥
' प्रश्ने
संधेयः संधियोग्यः यः कचित्स्वरे परे विकारमापद्यते, प्रश्नेऽर्चायां विचारे प्रत्यभिवादे च वर्तमानस्य वाक्यस्य संबन्धिनः स्वरेष्वन्त्यस्वरस्य संधेयसंध्यक्षरस्य प्लुतो भवन् आकार इदुत्परः प्लुतो भवति । स च प्रत्यासत्त्या एकारैकारयोरिकारपर ओकारौकारयोरुकारपरो भवति । प्रश्ने, अगमः ३ पूर्वान् ३ ग्रामा ३ नग्निभूता ३ इ, पटा ३ उ । अदा ३ स्तस्मा ३ इ, अपचा ३ इ, पटा ३ उ, अहौषी ३ रग्ना ३ उ । च प्रतिपदम् ' ( ७-४ - ९८ ) इति प्लुतः । अर्चा पूजा तस्यां ' दूरादामन्त्र्यस्य ' ( ७ - ४ - ९९ ) इति प्लुतः । शोभनः खल्वसि अग्निभूता ३ इ । पटा ३ उ । विचारे, वस्तव्यं किं निर्ग्रन्थस्य सागारिका ३ इ उतानागारिके । प्रत्यभिवादे, आयुष्मानेधि अग्निभूता ३ इ, पटा ३ उ, आयुष्मन्तौ भूयास्तां देवदत्तजिनदत्ता ३ उ । प्रश्नार्चाविचारे चेति किम् ? आगच्छ भो अग्निभूते ३ । संधेयग्रहणं किम् ? कच्चि ३ त् कुशल ३ म् भवत्योः ३ कन्ये ३ । अगमः ३ पूर्वा ३ न् ग्रामा३ नहो ३ भद्रकाऽसि गौः ३ । आयुष्मानेधि भौ ३ः । संध्यक्षरस्येति किम् ? भद्रिकासि कुमारि ३ । वाक्यस्य स्वरेष्वन्त्यस्वर इति विज्ञानादिह न भवति । अगम: ३ पूर्वो ३ ग्रामी ३ देवदत्त ३ । १०२ ।
न्या० स० प्रश्ना०—संधियोग्य इति यस्य ' ईदूदेत् ' १-२-३४ इत्येवमादिर्भिर्निषेधो नास्ति ।
तयोख स्वरे संहितायाम् ॥ ७. ४. १०३ ॥
तयोः प्लुताकारात्परयोरिदुतोः स्थाने स्वरे परे संहितायां विषये यथासंख्यं यकारवकारावादेशौ भवतः । अविरामः संहिता, अगम ३ अग्निभूता ३ यत्रागच्छ, अगम ३ अग्निभूता ३ यिहागच्छ, अगम: ३ पटा ३ वत्रागच्छ, अगमः ३ पटा ३ वुदकमानय, स्वे दीर्घत्वस्यास्वे स्वरे ह्रस्वत्वस्य बाधनार्थं वचनम् । स्वर इति किम् ? अग्ना ३. इ, पटा ३ उ, संहितायामिति किम् ? अग्ना ३ इ इन्द्रम्, पटा ३ उ उदकम्, अग्ना ३ इ अत्र, पटा उ अत्र । केचिदैदौतोश्चतुर्मात्रं प्लुतमिच्छन्ति । ऐ ४ तिकायन, औ ४
पगव । १०३ |