________________
..
[ पाद. ४. सू. ८८-८९ ]
श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोऽध्यायः
[ ३८५
स्यादेः प्लुप् भवति । प्रियप्रियेण ददाति । प्रियेण ददाति । सुखसुखेनाधीते सुखेनाधीते, अक्लेशेनाधीते इत्यर्थः । अकृच्छ्र इति किम् ? प्रियः पुत्रः, सुखो रथः । चकारः प्लुप् चादौ स्यादेः इत्यस्यानुकर्षणार्थः । ८७।
वाक्यस्य परिवर्जने ।। ७. ४. ८८ ।।
वाक्यस्यावयवो यः परिशब्दों न पदस्य स वर्जने वर्तमानो वा द्विरुच्यते । परिपरि त्रिगर्तेभ्यो वृष्टो मेघः, परि त्रिगर्तेभ्यो वृष्टो मेघः, परिपरि सौवीरेभ्यः, परि सौवीरेभ्यः । वाक्यस्येति किम् ? परित्रिगतं वृष्टो मेघः । वाक्यस्यैवेत्यवधारणविज्ञानात्पदावयवे न भवति । परिरिति किम् ? अप त्रिगर्तेभ्यो वृष्टो मेघः । वर्जन इति किम् । साधुर्देवदत्तो मातरं परि ॥८८॥
न्या० स० वाक्य ० — वाक्यस्यैवेति । यद्यपि यः पदावयवः स वाक्यस्यापि तथापि यो वाक्य यैव भवतीति । ननु परिशब्दो नावाक्यावयवः कश्चिदस्ति सर्वमपि हि पदं वाक्यावयवे प्रयुज्यते वाक्यावयवत्वात् संव्यवहारस्य संव्यवहारार्थत्वाच्च शब्दप्रयोगस्य, न च परिशब्दः केवलः प्रयुज्यमानो वर्जनं गमयति द्योतकत्वात्, द्योतको हि कस्यचित् संनिधावेव प्रयुज्यमानो द्योत्यं द्योतयतीति वाक्यावयवत्वे सिद्धे वाक्यावयवत्वप्रतिपत्त्यर्थं वाक्यस्येत्यनर्थकम्, ततश्च सिद्धे सति नियमः ।
संमत्यसूयाकोपकुत्सनेष्वाद्यामन्त्र्यमादौ स्वरेष्वन्त्यश्व प्लुतः
।। ७. ४. ८९ ॥
कार्येष्वाभिमत्यं सम्मतिः पूजनं वा । परगुणासहनमसूया, कोपः क्रोधः, निन्दा कुत्सनम् । एते प्रयोक्तृधर्मा नाभिधेयधर्माः । एतेष्वर्थेषु वर्तमानस्य वाक्यस्यादिभूतमामन्त्र्य मामन्त्रणीयार्थं पदं द्विरुच्यते, तत्र द्विर्वचने आदौ पूर्वोक्तौ स्वरेषु स्वराणां मध्ये योऽन्त्यस्वरः स प्लुतो वा भवति । संमत्यसूयाकोपकुत्सनेष्विति बहुवचनात् द्विर्वचने विकल्पो न सबध्यते । संमत, माणवक ३ माणवक माणवक माणवक अभिरूपक ३ अभिरूपक अभिरूपक अभिरूपक शोभनः खल्वसि । असूयायाम्, माणवक ३ माणवक माणवक माणवक अभिरूपक ३ अभिरूपक अभिरूपक अभिरूपक रिक्त ते आभिरूप्यम् । कोपे, माणवक ३ माणवक माणवक माणवक अविनीतक ३ अविनीतक अविनीतक अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने, शक्तिके ३ शक्तिके शक्तिके शक्तिके यष्टिके ३ यष्टिके यष्टिके यष्टिके रिक्ता ते शक्तिः । संमत्यसूयाकोपकुत्सनेष्विति किम् । देवदत्त गामभ्याज शुक्लां दण्डेन | आदी किम् ? शोभनः खल्वसि माणवक । आमन्त्र्यमिति किम् ? उदारो देवदत्तः ।