________________
३८४ ]
बृहवृत्ति-लघुन्याससंवलिते [ पाद. ४ सू० ८४-८७ ] ___ न्या० स० रहस्य-रहस्यं मन्त्रयन्त इत्यर्थ इति अत्र द्वंद्वशब्दो रहस्यार्थः, न तु द्विशब्दार्थः संख्या काचिदस्ति, यदनेकार्थः
'द्वंद्वः स द्वंद्वमाहवे रहस्ये मिथुने युग्मे' इति । लोकज्ञातेऽत्यन्तसाहचर्ये ॥ ७. ४. ८४ ॥
लोकज्ञातेऽत्यन्तसाहचर्ये द्योत्ये द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते । द्वन्द्वं नारदपर्वतो, द्वन्द्वं रामलक्ष्मणौ, द्वन्द्वं' बलदेववासुदेवौ, द्वन्द्वं स्कन्दविशाखौ, द्वन्द्वं शिववैश्रवणौ। लोकज्ञात इति किम् ? द्वौ चैत्रमैत्री । अत्यन्त साहचर्य इति किम् ? द्वौ युधिष्ठिरार्जुनौ । द्वन्द्वमिति च सूत्रत्रयेऽपि नपुंसकम् वेदितव्यमनुप्रयोगस्य नपुंसकत्वार्थम् ।।८।। आवाधे ॥ ७. ४. ८५॥
आबाधो मन:-पीडा प्रयोक्तृधर्मः, तस्मिन् विषये वर्तमानं शब्दरूपं दिरुच्यते तत्र चादौ पूर्वपदे स्यादेः प्लुप् भवति । ऋक् ऋक, पू: पूः, गतगतः, नष्टनष्टः, गतगता, नष्टनष्टा । नन करोमि । ऋगादेदुरुच्चारणादिना पीडथमानः प्रयोक्ता एवं प्रयुङ्क्ते । अष्टमी अष्टमी कालिका कालिका इत्यत्र तु पूरणप्रत्ययान्तत्वात् कोपान्त्यत्वाच्च पुवद्भावो न भवति ।।८५॥
न्या० स० आबा.- कालिकाकालिकेति ‘गौरादिभ्य' २-४-१९ इति यां काल्येव यावादिभ्यः कः' ७-३-१५। नवा गुणः सदशे रित् ॥ ७. ४. ८६ ॥
गणशब्दो मुख्य सदशे गुणे गणिनि वा वर्तमानो वा द्विरुच्यते तत्र चादौ वर्तमानस्य स्यादेः प्लुप् भवति सा च रित् । रित्करणं प्रतिपिद्धस्यापि पुंवद्भावस्य 'रिति ' (३-२-५८) इति विधानार्थम् । शुक्लशुक्लं रूपम्, शुक्ल शुक्लः पटः, कालककालिका, शुक्लादिसदृशमपरिपूर्णगुणमेवमुच्यते। वाग्रहणात्पक्षे जातीय रपि भवति । शुक्लजातीयः, पटुजातीयः। गुण इति किम् ? अग्निर्माणवकः, गौर्वाहीकः । सदा गुणवाची यः स इह गुणशब्दो गह्यते । अयं तूपमानात्प्रारद्रव्यवाची पश्चात्तु तैक्ष्ण्यजाड्यादिगुणवाचीति न भवति । सदृश इति किम् ? शुक्लः पटः, पटुश्चत्रः ।८६।
न्या. स. नवा-कालककालिकेति 'भाजगो' २-४-३० इति ब्यां काल्येव कालिका । प्रियसुखं चाकृच्छ्रे ॥ ७. ४. ८७ ॥ प्रियसुखशब्दौ अकृच्छ्रे क्लेशाभावे वा द्विरुच्येते तत्र चादौ शब्दरूपस्य