________________
३८६ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ स्० ९०-९२ ] आदाविति किम् ? उत्तरीक्ती मा भूत् । स्वरेष्विति किम् । व्यञ्जनान्तस्यापि यथा स्यात् । अन्त्य इति किम् ? आदिमध्यो वा मा भूत् । चकारो द्विर्वचनानुकर्षणार्थः । तथा च चानुकृष्टत्वादुत्तरत्र नानुवर्तते ।८९। भर्त्सने पर्यायेण ॥ ७. ४. ९० ॥ ___ भर्त्सनं कोपेन दण्डाविष्करणम्, तत्र द्विवचनं सिद्धमेव प्लुतार्थ आरम्भः। भर्त्सने वर्तमानस्य वाक्यस्य यदामन्त्र्यं पदं तद्विरुच्यते । तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तो स्वरेऽवन्त्यः स्वरः प्लतो वा भवति । चौर ३ चौर, चौर चौर ३, चौर चौर, दस्यो ३ दस्यो, दस्यो दस्यो ३, दस्यो दस्यो घातयिष्यामि त्वां, बन्धयिष्यामि त्वाम् ।९। त्यादेः साकाङ्क्षस्याङ्गेन ॥ ७. ४. ९१ ॥
वाक्यस्य स्वरेष्वन्त्यः प्लतो वेत्यनुवर्तते भर्त्सन इति च, भर्सने वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य अङ्ग इत्यनेन निपातेन युक्तस्य संबन्धी प्लुतो वा भवति । अङ्ग कूज ३ अङ्ग कूज इदानीं ज्ञास्यसि जाल्म अङ्ग व्याहर ३ अङ्ग व्याहर इदानीं ज्ञास्यसि जाल्म । त्यादेरिति किम् ? अङ्ग देवदत्त मिथ्या वदसि । साका
ङ्क्षस्येति किम् ? अङ्ग पच, नैतदपरमाकाङ्क्षति । अङ्गनेति किम् ? देवदत्त कजेदानीं ज्ञास्यसि जाल्म । भर्सन इत्येव । अङ्गाधीष्व मोदकं ते दास्यामि ।९१। __ न्या० स० त्यादे०-अङ्ग पचेति अत्राङ्गशब्दात् 'सम्मत्यसूया' ७-४-८९ इति 'भर्सने प' ७-४-९० इति च सूत्रेण प्लुतो द्विर्वचनं च न भवति' यतोऽन्योरामन्त्र्ये आमन्त्रणीयार्थे यत्पदं वर्तते तद् गृह्यते, अङ्गेति च पदमामन्त्रणमेव द्योतयति न त्वामन्त्र्यम् ।
देवदत्त क्जेत्यादि नन्वत्र भर्त्सनस्य विद्यमानत्वात् ‘सम्मत्यसूया' ७-४-८९ इत्यनेनाथामन्त्र्यस्य द्वित्वं प्लुतश्च कस्मान्न भवति ? .
उच्यते, वाक्यैकदेशत्वान्न भवति, अत्र हि परमदेवदत्तेत्यादि महद्वाक्यमस्तीति न प्लुतः।। क्षियाशीः श्रेषे ॥ ७. ४. ९२ ॥
क्षिया आचारभ्रेषः, आशीः प्रार्थनाविशेषः, . प्रेषोऽसत्कारपूविका व्यापारणा, एतेषु वर्तमानस्य वाक्यस्य स्वरेष्वन्त्यः स्वरस्त्याद्यन्तस्य पदस्य वाक्यान्तराकाङ्क्षस्य संबन्धी प्लुतो वा भवति ।
क्षियायाम, स्वयं ह रथेन याति ३ उपाध्यायं पदाति गमयति, स्वयं