________________
३८२]
बृहदृत्ति-लघुन्याससंवलिते [पा० ४. सू० ८०] जायमान इति । आढचतरमाढयतरमानय । अत्र द्विर्वचनात्प्रागातिशायिकः। वीप्सायामिति किम् ? वृक्षं सिञ्चति । जात्येक शेषेतरेतरयोगक्रमाभिधानेषु सत्यामपि व्याप्तौ यथोक्तलक्षणवीप्साया अभावान्न भवति । तथाहि-संपन्नो यवः संपन्ना यवा इति जाते रेकत्वात् बह्वर्थाभिधानं नास्ति । अस्मिन्वने वृक्षाः शोभना इति एक शेषे साकल्येन व्याप्तिर्नास्ति । तथाहि-कतिपयेष्वपि वृक्षेषु शोभनेष्वयं प्रयोगो भवति । एवमितरेतरयोगेऽपि । अस्मिन्वने धवखदिरपलाशाः शोभना इति न वीप्सा, तथास्मिन्वनेऽयं वृक्षः शोभनोऽयं वृक्षः शोभन इति क्रमाभिधाने साकल्येनापि व्याप्ती योगपद्याभावान्न भवति । अस्मिन्वने सर्वे वृक्षाः शोभना इत्यत्र तु सर्वशब्देन वीप्सार्थाभिधानान्न भवति । यथा तद्धितसमासाभ्याम् । तद्धितेन तावत्, द्वौ द्वौ पादौ ददाति द्विपदिकां ददाति, एकैकं ददाति एकशो ददाति, एकैकशो ददातीत्यत्र वीप्सायां द्विर्वचने कृते 'वह्वल्पार्थात् '- (७-२-५०) इति कारके प्रशस् भविष्यति । समासेनापि, अर्थमर्थं प्रति प्रत्यर्थम्, गेहंगेहमनुप्रवेशमास्ते गेहानुप्रवेशमास्ते, कचित्तु वीप्स्यमानमपि समासेनाभिधीयते । पर्वणि पर्वणि सप्त पर्णान्यस्य सप्तपर्णः, पङ्क्तौ पङ्क्तो अष्टौ पदान्यस्य अष्टापदः, ननु च वृक्षं वृक्षं सिञ्चतीत्यादौ वीप्सायां बहवोऽर्थाः प्रतीयन्ते तत्र बहुषु बहुवचनं प्राप्नोति ? उच्यते-पृथक्संख्यायुक्तानामिति वचनात परिगहीतैकत्वादिसंख्यानां पदार्थानां वीप्सया योग इति पुनः समुदायादवचनं न भवति ।८०। ____ न्या० स० वीप्सायाम्-उपचरितभेदस्येति एकस्यापि देशकालावस्थादिभेदेन भेदोपचारादनेकत्वाद् वीप्सायां द्विर्वचनविरोध इत्यर्थः।
व्यापकधर्मस्यापीत्यादि अत्रेयमाशङ्का-यदुतान्योन्यः संपद्यत इत्यादिषु .. अन्यत्वादिधर्म एक एव तत्कथं वीप्सा? इत्याह-व्यापकधर्मोऽन्यत्वादिः। जीवश्च व्याप्यः, स च जीवः कदाचिद् हस्ती भवति कदाचिन्नरः कदाचित् शगाल इत्यनेकभेदः, व्यापकधर्मस्य व्याप्येन सहाभेदोपचारात् भेदत्वं व्यापकधर्मस्य भेदे नानात्वे सति व्यापकान्तरापेक्षायां भवति, संपद्यत इत्यादिक्रियारूपायां वीसा भवति, यतः क्रियादिना व्याप्तुमिच्छा वीप्सा इति क्रियादिापकः।
यथाऽन्योऽन्यः संपद्यते स एव जीवोऽन्योऽन्यो भवति । कोऽर्थः ? कदाचिद् हस्ती नरः श्वा च भवतीति व्याप्यभूतो जीवोऽनेकप्रकारः तभेदाद् व्यापकधर्मोप्यनेकप्रकारः, ततो बहूनामर्थानामित्यादि यद्वीप्सालक्षणं तद् घटत एव, एवं नवो नवो भवति जायमान इत्यत्रापि । ____ ननु तस्यैवान्यत्वमन्यावं इत्यर्थः तस्य च जायमानस्य नवत्वं भवतीत्यर्थ इत्यनयोः प्रयोगयोरर्थः, तत्कथं स एवान्योन्यः संपद्यते स एव नवा नवो भवति जायमान इति सामानाधिकरण्यं स्यात् ! उच्यते, धर्मधर्मिणोग्भेदनयेन भविष्यतीति ।