________________
4
पाद. ४. सू. ७८-८० ]
श्रीसिद्धहेमचन्द्र शब्दानुशासने सप्तमोध्यायः [ ३८१ किशलयिता यावत्पुष्पिताः, न तावदिमे पुष्पिता यावत्पक्वा इति । अतिशय इति किम् ? पूर्वं प्रथमम् । अन्येऽतिशयमात्रेऽपि द्विर्वचनमिच्छन्ति तमप्तरबर्थं च विकल्पम् ॥७७॥
न्या० स० पूर्व० – तदर्थस्येति प्रकर्षो ह्यर्थस्य भवति तद्धर्मत्वात्, ततश्च द्विर्वचन भाजोः पूर्व प्रथम शब्दयोरेव प्रत्यासत्तेर्विज्ञायत इति । न तावदिमे इति क्रमो हि किशलयानन्तरं पुष्पं तत्त्यागे न प्रथममेव पुष्पमेवं पुष्परित्यागे न फलमिति ।
प्रोपोत्सं पादपूरणे ।। ७. ४. ७८ ॥
प्र, उप, उत्, सम् इत्येतान्युपसर्गरूपाणि द्विरुच्यन्ते तेन चेत् पादः पूर्यते ॥
प्रशान्तकषायाग्नेरुपोपप्लववर्जितम् ॥ उदुज्ज्वलं तपो यस्य संसंश्रयत तं जिनम् ||१|| पादपूरण इति किम् ? प्रणम्य सच्छासनवर्धमानम् । इदं छन्दसीति कश्चित् ॥७८॥
सामीप्येऽधोऽध्युपरि ।। ७. ४. ७९ ।।
अधस्, अधि, उपरि इत्येतानि शब्दरूपाणि द्विरुच्यन्ते सामीप्ये विवक्षिते । सामीप्यं देशकृता कालकृता वा प्रत्यासत्तिः । अधोऽधो ग्रामम्, अध्यधि ग्रामम्, उपर्युपरि ग्रामम्, उपर्युपरि दुःखानि, सामीप्य इति किम् ? अधः पन्नगाः, अधि ब्रह्मदत्ते पञ्चाला, उपरि चन्द्रमाः, कथमुपरि शिरसो घट इति ? अत्रोत्तराधर्यमात्रं विवक्षितम् न सदपि सामीप्यमिति न भवति । यथायथमिति मकारान्तमव्ययं यथास्वमित्यर्थे आश्रीयते इति यथास्बे यथायथमिति नारभ्यते ॥ ७९ ॥
वीप्सायाम् ।। ७. ४. ८० ।।
पृथक्संख्यायुक्तानां बहूनां सजातीयानामर्थानां साकल्पेन प्रत्येकं क्रियया गुणेन द्रव्येण जात्या वा युगपत्प्रयोक्तुर्व्याप्तुमिच्छा बीप्सा, तस्यां यद्वर्तते शब्दरूपं तद्विरुच्यते । वीप्सा च स्याद्यन्तेष्वेव भवतीति तेषामेव द्विवचनम् । वृक्षं वृक्षं सिञ्चति, ग्रामो ग्रामो रमणीयः, गृहे गृहे अश्वाः, गोद्धा योद्धा क्षत्रियः, तथा रूपं रूपं पश्यति, शुक्लं शुक्लमानयति, क्रियां क्रियामारभते उपचरितभेदस्यापि भवति । खिन्नः खिन्नो विश्राम्यति, क्षीणः क्षीणः पयः पिबति । व्यापकधर्मस्यापि व्याप्येनाभेदोपचाराद्भेदे सति व्यापकान्तरापेक्षायां वीप्सा भवति । स एवान्योऽन्यः संपद्यते । नवो नवो भवति