________________
३८० ]
बृहद्वृत्ति - लघुन्याससंबलिते
[ पाद. ४ सू. ७६-७७ ] व्यपदेशः, उपरिसंनिविष्टमपेक्ष्य मूलव्यपदेशः । न चैकरूपं भागानां स्थौल्यं सौक्ष्म्यं वा किं तर्हि यथामूलमुपचीयते स्थौल्यम् यथाग्रं च सौक्ष्म्योपचय इति वीप्सा नास्ति, एवं ज्येष्ठत्व कनिष्ठत्वयोरपि आपेक्षिकत्वाद्वा नास्तीति वचनम् ।।७५।।
C
न्या० स० अधि० - अग्रेअ इति विरामविवक्षणात् न सन्धिः १-३-५२ इति संधिनिषेधः ।
वीप्सा नास्तीति साकल्येन व्याप्त्यभावात् । आपेक्षिकत्वादिति साकल्यं नास्ति, न हि ये वृद्धास्ते वृद्धा एव, ये च कनिष्ठास्ते कनिष्ठा एवेति ।
sarsaat समानां स्त्रीभावप्रश्ने ।। ७. ४. ७६ ॥
समानां केनचिद्गुणेन तुल्यतया संप्रधारितानां स्त्रीलिङ्गस्य भावस्य प्रश्ने यद्वर्तते इतरान्तं डतमान्तं च शब्दरूपं तद्विरुच्यते, उभाविमावाढ्यौ कतरा कतरा अनयोराढ्यता किं दैवकृता उत पौरुषकृतेत्यर्थः कतमा कतमा अनयोराढयता कि साधनसंबन्धकृता उतान्यसंबन्धकृता आहोस्विदुभयसंबन्धकृतेत्यर्थः । एवं सर्व इमे आढ्याः कतरा कतरा एषामाढचता । कतमा कतमा एषामाढद्यता । सर्व इमे आढयाः यतरा यतरा एषां विभूतिः ततरा `ततरा कथ्यताम् । यतमा यतमा एषां संपत्, ततमा ततमा कथ्यताम् । तरमाविति किम् ? उभाविमावाढघौ कानयोराढ्यता । समानामिति किम् ? आढयोऽयं कतरास्याढयता कतमास्याढ्यता । स्त्रीग्रहणं किम् ? उभाविमावाढयौ कतरदनयोराढद्यत्वम् । कतमोऽनयोर्विभवः । भावग्रहणं किम् ? उभाविमौ लक्ष्मीवन्तौ कतरानयोर्लक्ष्मीः । कतमानयोर्लक्ष्मीः । लक्ष्यतेऽनया पुण्यकर्मेति लक्ष्मीः, इयं स्त्री भवति न भाव इति । प्रश्न इति किम् ? उभाविमावाढचौ यतरानयोराढयता ततरा श्रूयताम् । केचिड्डत रडतमाभ्यां स्त्रीलिङ्गाच्चान्यत्रापीच्छन्ति । उभाविमावाढयो कीदृशी कीदृशी अनयोराढयता । कतरत्कतरदनयोराढयत्वम्, कतमः कतमोऽनयोविभवः । कतरानयौराढयतेत्यादी प्राप्ते स्वार्थिकं द्विर्वचनम् ॥ ७६ ॥
पूर्वप्रथमावन्यतोऽतिशये ।। ७. ४. ७७ ।।
पूर्वशब्दः प्रथमशब्दश्चान्यतोऽतिशये तदर्थस्य प्रकर्षे द्योत्ये द्विरुच्यते, आतिशायिकापवादः । पूर्व पूर्वं पुष्यन्ति, प्रथमं प्रथमं पच्यन्ते, अन्येभ्यः पूर्वतरं पुष्यन्ति, प्रथमतरं पच्यन्त इत्यर्थः । अन्यत इति किम् ? पूर्वतरं पुष्यन्ति, प्रथमतरं पच्यन्ते । अत्र स्वव्यापारापेक्षातिशयो गम्यते न तावदिमे