________________
[ पाद. ४. सू. ७४-७५ | श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः
[ ३७९
न्या० स० भृशाभीक्ष्ण्या०– आमीक्ष्ण्यं विच्छेदेनापि स्थित्वा स्थित्वा क्रियाकरणे संभवति, अविच्छेदश्च निरन्तरक्रियाकरणे संभवति इत्यनयोर्भेदः ।
क्रियाविशेषणस्येति यदि क्रियापदमेवात्र संबध्यते तर्हि पुनः पुनः पचतीत्यत्र कथं क्रियाविशेषणस्य द्विर्वचनम् ? इत्याशङ्का, अस्तमयतीति ' इंण्क् गतौ ' अयनमयः अस्तमयोऽस्तमयः, स इवाचति क्विपि रूपमिदं इं दुं इत्यस्य वा ।
द्विर्वचनमिति यदा तु आभीक्ष्ण्ये यङ् तदा भृशार्थ घ्यावयवक्रियासाकल्यरूपस्य मध्यपतित्वेन गतार्थत्वाद् विचारो न कृतः ।
नानावधारणे ॥ ७ ४. ७४ ॥
नानाभूतानां भेदेनेयत्तापरिच्छेदो नानावधारणम् । तस्मिन्यच्छन्दरूपं वर्तते तद्विरुच्यते, योगविभागात्प्राक्तमबादेरिति नानुवर्तते । अस्मात्कार्षाप - दिभवद्भ्यां माषं माषं देहि, प्रत्येकं माषमात्रं देहि नाधिकमित्यर्थः । द्वौ द्वौ देहि, त्रीन् त्रीन् देहि, एषु कार्षापणसंबन्धिनो माषा न साकल्येन दित्सिताः किं तर्हि प्रत्येकं माषमात्रमेव द्वावेव त्रय एव वेति न वीप्सास्ति । नानाग्रहणं किम् अस्मात्कार्षापणादिहभवद्धभ्यां माषंदेहि । एकमेवेत्यर्थः । अवधारण इति किम् । अस्मात्कार्षापणादिभवद्भ्यां माषं द्वो त्रीन्वा देहि ॥७४॥
न्या० स० नाना०—भूतानामित्यादि नानाशब्दो नानाभूते माषादौ वत्र्त्तते तस्यावधारणमेकत्वादि नानावधारणमिति न वीप्साऽस्तीति, इह सत्यपि नानावधारणे वीप्सास्त्येव, द्वावपि हि तौ माषौ प्रत्येकं दानेन वीप्स्येते, ततो वीप्सायामेव द्विर्वचनं भविष्यति किमर्थमिदम् ? इत्याह-एषु कार्षापणसंबन्धिन इत्यादि वीप्सा हि द्विरुच्यमानस्य यावन्तोऽर्थभेदास्तावतां प्रत्येकं क्रियादिना व्याप्तुमिच्छा सा न द्वयोस्त्रयाणां वा संबन्धे भवति, अपि तु सर्वेषामेव, अत्र च कार्षापण नामानेकमा समुदायरूपस्तत्र तत्संबन्धिनो माषाः सर्व एव न दातुमिष्टाः किन्तु वे, वीप्सायां तु सर्वं ददात्येव ।
आधिक्यानुपूर्ये । ७. ४. ७५ ।।
।।
आधिक्यं प्रकर्ष:, आनुपूर्व्यं क्रमानुल्लङ्घनम् । एतयोर्यच्छब्दरूपं वर्तते तद्विरुच्यते । आधिक्ये, नमो नमः, अधिकं नम इत्यर्थः । कन्या दर्शनीया कन्या दर्शनीया, अहोदर्शनीया अहोदर्शनीया, मह्यं रोचते मह्यं रोचते, एष तवाञ्जलिरेष तवाब्जलिः, मह्य रोचतेतराम् मह्यं रोचतेतराम्, अत्र प्रागातिशायिकः पश्वा द्वित्वम्, आनुपूर्व्ये, मूले मूले स्थूलाः, अग्रे अग्रे सूक्ष्मा:, ज्येष्ठं ज्येष्ठमनुप्रवेशय, कनिष्ठं कनिष्ठमासय, मूलाद्यानुपूर्व्येणैषां स्थौल्पादय इत्यर्थः । अग्रमूलमध्यानि त्रयो भागाः तत्रैकमेव मुख्यमत्रं मूलं च । अन्येषां तु भागानामपेक्षाकृतोऽग्र मूलव्यपदेशः । अघः सन्निविष्टमपेक्ष्याग्र