SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३७८ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पाद. ४ सू० ७३ | वाक्यं वा वर्तते न पदावयव इति नासौ असकृद्विर्वा भवति । तच्च पदं वाक्यं वा परिनिष्पन्नं सत्तत्र वर्तते नापरिनिष्पन्नमिति कृतेषु यत्वादिकार्येषु तदसकृद्विर्वा भवति नाकृतेषु । तेन द्रोग्धा द्रोग्धा, द्रोढा द्रोढेत्येव भवति नतु द्रोग्धा द्रोढा द्रोढा द्रोग्धा । एवं माषवापाणि माषवापाणि, मातुःष्वसा मातुःष्वसा होणो हीणः । कृतद्विर्वचनानामपि रूपार्थयोरभेदेन स्थानिवद्भावेन चैकपदत्वात् कौतस्कुतः पौनःपुन्यम् पौनपुनिकः इत्यादिषु तद्धितः सिद्धो भवति ॥७२॥ न्या० स० अस० १० - असकृद्विर्वेति अनेनासकृत् वक्ष्यमाणैस्तु द्विः । कौतस्कुत इति कस्कादौ कौतस्कुतेति पाठादागतेऽर्थे अणेव, न तु 'क्वेहामात्र ' ६-३ - १६ इति त्यच् । भृशाभीक्ष्ण्याविच्छेदे दिः प्राक्तमवादेः ।। ७. ४. ७३ ।। क्रियायाः साकल्यमवयवक्रियाणां कात्स्यं भृशार्थः । पौनःपुन्यमा भीक्ष्ण्यम्, सातत्यं क्रियान्तरैरव्यवधानमविच्छेदः । एतेषु द्योत्येषु यत्पदं वाक्यं वा वर्तते तत्तमवादिप्रत्ययेभ्यः प्रागेव द्विरुच्यते । भृशे, लुनीहि लुनीहीत्येवायं लुनाति, अधीष्वाधीष्वेत्येवायमधीते, आभीक्ष्ण्ये, भोजं भोजं व्रजति, भुक्त्वा भुक्त्वा व्रजति अविच्छेदे, पचति पचति, अधीते अधीते, ब्रह्मचर्यं चरति चरति, प्रपचति प्रपचति, सत्करोति सत्करोति, अलंकरोति अलंकरोति । भृशादयश्च क्रियाधर्मा इति क्रियापदमेवात्र संबध्यते । क्रियाविशेषणस्यापि क्रियात्वेनाध्यवसाय त् भृशादियांगे द्विर्वचनं भवति । यथा पुनःपुनः पचति भूयो भूयः पठति, वारंबारं भुङ्क्ते, मुहुर्मुहुः पिबति, शनैः शनैर्गच्छति, मन्दं मन्द तुदति, स्तोकं स्तोकं चलति, पृथक्पृथगभिधत्ते । यदा तु क्रियारूपता न विवक्ष्यते तदा ' नवा गुणः सदृशे रित्' (७-४-८६ ) इति सादृश्ये द्विर्वचनं भवति । मन्द मन्दं तुदति, स्तोकं स्तोकम् अस्तमयति इति । एतेष्विति किम् लुनीहि, भुक्त्वा व्रजति, पचति । भृशाभीक्ष्ण्ययोर्यङिति यङन्तमुक्तार्थत्वान्न द्विरुच्यते । यदा तु भृशार्थे यङ् तदाभीक्ष्ण्यार्थाभिव्यक्तये द्विर्वचनम् पापच्यते पापच्यत इति । यदा तु तत्प्रतिपादनाय पञ्चमी विधीयते तदा तस्या द्विर्वचनसहायाया एवाभीक्ष्ण्यप्रतिपादने सामर्थ्यं क्त्वाणमोरिवेति द्विर्वचनमपि भवति पापच्यस्व पापच्यस्वेति । प्राक्तमबादेरिति किम् ? पचतिपचतितमाम्, पचतिपचतितराम् । अत्र तमबादेरातिशायिकात्पूर्वमेव द्विर्वचनम् पश्चात्तमवादिः, अन्यथा ह्यनियमः स्यात ॥७३॥
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy