________________
[पाद ४. सू. ६९-७२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३७७ अकद्रपाण्डवोरुवर्णस्यैये ॥ ७. ४. ६९ ॥
कद्रूपाण्डुशब्दवजितस्य उवर्णान्तस्य एये तद्धिते परे लुग भवति । कमण्डल्वा अपत्यं कामण्डलेयः, मद्रबाह्वा माद्रबाहेयः, शितिबाह्वाः शैतिबाहेयः, जम्ब्बा जाम्बेयः, लेखाभ्रुवः लैखाभ्रेयः। अत्र परत्वादुवादेशो बाध्यते । अकद्रूपाण्ड्वोरिति किम् ? काद्रवेयः, पाण्डवेयः । उवर्णस्येति किम् ? वैमात्रयः। एय इति किम् ? माण्डव्यः ।६९।
अस्वयंभुवोऽव् ॥ ७. ४. ७० ॥ ___ स्वयंभूशब्दवजितस्यापदसंज्ञकस्योवर्णान्तस्य तद्धिते परे अव् इत्ययमादेशो भवति । उपगोरपत्यमौपगवः, कापटवः, बाभ्रव्यः, माण्डव्यः । शङ्कव्यं दारू, पिचव्यः कर्पासः, बाहविः, औपबिन्दविः (औपबाहविः) अस्वयंभुव इति किम् ? स्वायंभुवः ।७०। ऋवर्णोवर्णदोसिसुसशश्वदकस्मात्त इकस्येतो लुक् ॥ ७. ४. ७१ ॥
ऋवर्णान्तादुवर्णान्ताद्दोस्शब्दादिसन्तादुसन्ताच्छश्वदकस्माद्विवजितात्तकारान्ताच्च परस्येकप्रत्ययस्य संबन्धिन इत इकारस्य लुग्भवति । मातुरागतं मातृकम्, पैतृकम् । 'ऋत इकण्' (६-३-१५१)। उवर्ण, निषादका भवः नैषादकर्षुकः, शाबरजम्बुकः, 'उवर्णादिकण्' (६-३-३८)। दोस्, दोभ्या तरति दौष्कः, इस्, सपिः पण्यमस्य सापिष्कः, बाहिष्कः । उस्, धनुः प्रहरणमस्य धानुष्कः, याजुष्कः, उदश्विता संस्कृत ओदन औदश्वित्कः, शकृता संसृष्टः शाकृत्कः । याकृतः । शश्वदकस्मात् प्रतिषेधः किम् ? शश्वद्भवं शाश्वतिकम्, 'वर्षाकालेभ्यः' (६-३-७९) इतीकण-आकस्मिकम्, अध्यात्मादित्वादिकण्। प्रत्ययययोरिसुसोहणादिह न भवति। आशिषा चरति आशिषिकः वसे: कि उस्, उषा चरति औषिकः, मथितं पण्यमस्य माथितिक इत्यत्रापि तान्तत्वस्य लाक्षणिकत्वात् न भवति ।७१।
असकृत्संभ्रमे ॥ ७. ४. ७२ ॥ ___ भयादिभिश्चित्तव्याक्षेपात् प्रयोक्तुस्त्वरणं संभ्रमः। तस्मिन्द्यौत्ये यत् प्रवर्तते पदं वाक्यं वा तदसकृदनेकवारं प्रयुज्यते ।
अहिरहिः, बुध्यस्व बुध्यस्व, अहिरहिरहिः, बुध्यस्व बुध्यस्व बुध्यस्व, हस्त्यागच्छति हस्त्यागच्छति, लघु पलायध्वं लघु पलायध्वम् । संभ्रमादौ पदं