________________
३७६ ]
बृहदृत्ति-लघुन्याससँवलिते [पा० ४. सू० ६६-६८ ] आरातीय इत्यादि-'दोरीयः' ६-३-३२ वर्षाकालेभ्यः' ६-३-८० इतीकण,. 'भर्तुसंध्यादेरण' ६-३-८९ ।
अनीनादट्यतोऽतः ॥ ७. ४. ६६ ॥
ईन-अत्-अट्वजिते तद्धिते परेऽपदस्याह्नो योऽकारस्तस्य लुग भवति । अह्नां समूहः आह्नम्, अह्ना निर्वृत्तम् आह्निकम्, अनीनादटीति किम् । द्वाभ्यामहोभ्यां निर्वृत्तः द्वाभ्यामहोभ्यां भृतोऽधोष्टो द्वे अहनी भूतो भावी वा ब्यहीनः, त्र्यहीणः, 'रात्र्यहः'-(६-४-११०) इत्यादिनेनः । अति, अन्वहम्, प्रत्यहम् । अटि,-द्वयोरोः समाहारः ब्यहः, त्र्यहः, उत्तमाहः, परमाहः, पुण्याहम्, सुदिनाहम् ।६६।
न्या० स० अनी-द्वयहीन इति 'सर्वा शसंख्या' ७-३-११८ इति विहितमटं परमपि समासान्तं बाधित्वानवकशित्वात् 'रात्र्यहः संवत्सर' ६-४-११० इतीन एव अन्वहमित्यादि अहरहरनु, अहरहः प्रति 'योग्यता' ३-१-४० इति वीप्सायामव्ययीभावे नपुंसकाद् वा' ४-३-८९ इत्यत् । यदा तु अनुगतं प्रतिगतमहः तदा 'अह्नः' ७-३-११६ इत्यर्ट बाधित्वाऽव्ययद्वारेण 'सर्वाश' ७-३-११८ इत्यद अह्लादेशश्च स्यात् । द्वयहः, त्र्यहः, "द्विगोरनहोऽद' ७-३-९९ । विशतेस्तेर्डिर्ति ।। ७. ४. ६७ ।।
विशतिशब्दस्यापदसंज्ञकस्य यस्तिशब्दस्तस्य डिति तद्धिते परे लगा भवति । विशत्या क्रीतः विंशकः, विंशतिरधिकास्मिन् शते विशं शतम, एकविंशम्, विशतेः पूरणः विंशः, एकविंशः, आसन्ना विशतिरेषामासन्नविशाः। विशतेरिति किम् ? एकसप्ततेः पूरणः एकसप्ततः, एकाशीतः। तद्धित इत्येव । विंशतौ ।६७१ अवर्णवर्णस्य ।। ७. ४. ६८ ॥
अवर्णान्तस्येवर्णान्तस्य चापदस्य तद्धिते परे लग्भवति । निदिश्यमानस्वादवर्णवर्णयोरेव । दक्ष, दाक्षिः, प्लक्ष, प्लाक्षिः, चूडा, चौडिः, बलाका,बालाकिः, इवर्ण,-नाभि, नाभेय: । संकृतिः, सांकृत्यः, दुली,दौलेयः, रोहिणी,रौहिणेयः, वत्सं प्रीणातीति वत्सप्रीः तस्या अपत्यं वात्सप्रेयः। अत्र 'चतुष्पाद्य ऐयञ्' (६-१-८३) । परत्वाच्चेयादेशो बाध्यते । श्रायं हविरित्यादिषु तु विशेषविहितत्वात् 'वृद्धिः स्वरे' (७-४-१) इत्यादिना वृद्धिरेव । अपदस्येत्येव । शुक्लतमः, ऊर्णायुः, शुचितरः । तद्धित इत्येव । वक्षे, अग्न्योः ।६८॥