________________
पाद. ४. सू. ६३-६५] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३७५ भवति । अत्र ये इन्नन्तास्तेषामनपत्य इति शिखण्डिपीठसर्पिणोरपत्येऽपि " संयोगादिनः' (७-४-५३) इति सूकरसद्मसुपर्वणोस्त्वणि (७-४-५२) इति निषेधे प्राप्ते लुगवचनम् । कलापिना प्रोक्त वेदमधीयते कालापाः, कौथुमाः ।
तैतली, जाजलो, लाङ्गली, चाचार्याः । तत्कृतो ग्रन्थोऽप्युपचारात् तच्छब्देनोच्यते । तमधीयते तैतलाः, जाजलाः, लाङ्गलाः, शिखण्डिन इमेऽपत्यानि वा शैखण्डाः, शिलालिनः शैलालाः, सब्रह्मचारिणः साब्रह्मचारा, पीठसर्पिणः 'पैठसर्पाः, सूकरसद्मनः सौकरसद्माः, सुपर्वणः सौपर्वाः ।६२१
वाश्मनो विकारे । ७. ४. ६३ ।। .. अश्मनशब्दस्यापदस्य विकारे विहिते तद्धिते परेऽन्त्यस्वरादेल ग्वा भवति । अश्मनो बिकारः आश्मः, आश्मनो बा ६ विकार इति किम् ? आश्मनो मन्त्रः, नित्यमिच्छन्त्येके ।६३।
चर्मशुनः कोशसंकोचे ।। ७. ४. ६४ ।। ___ चर्मन्, श्वन इत्येतयोरपदभूतयोर्यथासंख्यं कोशे संकोचे चार्थे तद्धिते 'परेऽन्त्यस्वरादेलुग भवति । चर्मणो विकारः कोशश्चामः। कोसादन्यत्र चार्मणः । शुनोऽयं शौवः संकोचः, संकोचादन्यत्र शौवनः । कथं शुनो विकारोऽवयवो पा शौवं मासम् शौवं पुच्छमिति ? हैमादित्वादनि 'नोऽपदस्य' -(७-४-६१) इत्येव भविष्यति ।६४। प्रायोऽव्ययस्य ।। ७. ४. ६५ ॥
__ अव्ययस्यापदसंज्ञकस्य तद्धिते परेऽन्स्यस्वरादेः प्रायो लग भवति । स्वर्भवः सौवः, बहिर्जातो बाह्यः, बाहोकः, सायंप्रातिकः, पौनःपुनिकः । 'वर्षाकालेभ्यः' (६-३-७९) इतीकम् । अनभिधानादव्ययलक्षणस्तनद न भवति । पौनःपुन्यम्, उपरिष्टादागतः औपरिष्टः, परत आगतः पारतः, एकैकश्यम् । प्रायोग्रहणं प्रयोगानुसरणार्थम्, तेनेह न भवति । आरातीयः, शाश्वतिकः, शाश्वतः, पार्थक्यम् । अपदस्थेत्येव । कंयुः, शंयुः, अहंयुः ।६५।
न्या० स० प्रायो०-सायंप्रातिक इत्यादि अथाव्ययसमुदायोऽव्ययग्रहणेन गृह्यते इति 'सायंचिरम्', ६-३-८८ इति सायंप्रातरादिभ्यस्तनट् कस्मान्न भवति ? इत्याह-अनभिधानादियादि, एकैकश्यमिति एकमेकं ददाति, एकशब्दस्यामन्तस्य वीप्सायां द्वित्वं 'प्लुप्चादावेक' ७-४-८१ इत्यमो लुपि बह्वल्पार्थात् ' ७-३-१५० इति कारके शस् , एकैकशो भावः ट्यण।