________________
३७४ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४. सू. ५७-६२५ ! ब्रह्मणः ।। ७. ४. ५७ ।।
ब्रह्मशब्दस्यानपत्येऽणि परेऽन्त्यस्वरादेलुग भवति । ब्रह्मण इदं ब्राह्ममत्रम्, ब्राह्मो मन्त्रः, योगविभाग उत्तरार्थः । ५७१ जातो ।। ७. ४. ५८।।
ब्रह्मनशब्दस्य जातावभिध्यायामनपत्ये एवाणि परेऽन्त्यस्वरादेलुग भवति । ब्रह्मण इयं ब्राह्मी ओषधिः, पूर्वेण सिद्धे जाताक्नपत्ये एकेति नियमार्थ वचनम्, तेनोत्तरसूत्रेणापत्ये लग् न भवति । ब्रह्मणोऽपत्यं ब्राह्मणः, जाताविति किम् ?' ब्रह्मणोऽपत्यं ब्राह्मो नारदः ।५८।।
न्या० स० जाती०-नियमार्थमिति व्यक्तिवाचिनस्तु ब्रह्मणोऽपत्येऽणिः ब्राह्म इति भवत्युत्तरेण लोपात , सूत्राकरणे तु ब्राह्मण इति न स्यात् । अवमेणो मनोऽपत्ये ।। ७. ४. ५९।।
वर्मनशब्दवजितस्य मन्नन्तस्यापत्यार्थविहितेऽणि परेऽन्त्यस्वरादेल गा भवति । सुषाम्नोऽअत्यं सौषामः, मादसामः, भाद्रसामः । अधर्मण इति किम् ? चक्रवर्मणोऽपत्यं चाक्रवर्मणः । मन इति किम् ? सुत्वनोऽप्रत्यं सौत्वनः वाग्वनः । अपत्य इति किम् ? चर्मणा छन्नश्चार्मणो रथः ।५९।
न्या० स० अवमै०-चाक्रवर्मण इति अत्र व्यावृत्तौ सर्वत्र 'नोपदस्य' ७-४-६१ इत्यनेनापि नान्यस्वरादिलोपः 'अणि' ७-४-५२ इत्यनेन निषेधात् । हितनाम्रो वा ॥ ७..४. ६०॥
हितनामनशब्दस्याफ्त्येऽणि परेऽन्त्यस्वरादेलग भवति बा। हितनाम्नोऽपत्यं हैतनामनः, हैतनामः । अपत्य इति किम् ? हैतनामनः ।६०। नोऽपदस्य तद्धिते ॥ ७. ४. ६१ ॥
नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेलुग भवति । मेधाविमोअत्यं मैधावः, मायावः, औडुलोमिः, शारलोमिः, आम्निमिः। द्वयोरह्रोः समाहारो व्यहः, यहः । हस्तिनां समूहो हास्तिकम् । न इति किम् ? वैद्युतं तेजः । अपदस्येति किम् ? मेधाविरूप्यम् मेधाविमयम् । तद्धित इति किम् ? हस्तिना, हस्तिने ।६॥ कलापिकुथुमिततलिजाजलिलाङ्गलिशिखण्डिशिलालिसब्रह्म
चारिपीठसर्पिसूकरसद्मसुपर्वणः ।। ७. ४. ६२ ॥ कलाप्यादीनां नकारान्तानामपदसंज्ञकानां तद्धिते परेऽन्त्यस्वरादेलम