________________
[ पाद ४. सू. ५२-५६] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३७३
अणि ॥ ७. ४. ५२ ।। __ अन् इत्येतदन्तस्याणि तद्धिते परेऽन्त्यस्वरादेलुग्न भवति । सुत्वनोऽपत्यं सौत्वनः, याज्वनः, साम देवतास्य सामनः, वैमन:, संदिष्टं कर्म कार्मणम, 'पर्वणि भवः पार्वणः अणीति किम् ? कर्म शीलमस्य कार्मः, छन्त्रादित्वादञ् । कर्मणे शक्तं कामु कम्, 'योगकर्मभ्यां योको' (६-४-९५) इत्युक, योगविभाग उत्तरार्थः ।५२। संयोगादिनः ॥ ७. ४. ५३ ॥
संयोगात्परो य इन् तदन्तस्याणि परेऽन्त्यस्वरादेलुग न भवति । शङ्खिनोऽपत्यं शाङखिनः, चाक्रिणः, वाज्रिणः, स्राग्विणः, माद्रिणः, भाद्रिणः । संयोगादिति किम् ? मेधाविनोऽपत्यं मैधावः, मायावः । अणीत्येव ? प्राकारमदिनोऽपत्यं प्राकारमर्दिः, वाह्वादित्वादि । अनपत्ये उत्तरेण सिद्धत्वादपत्यार्थोऽयमारम्भः ।५३। गाथिविदथिकेशिपणिगणिनः ॥ ७. ४. ५४॥
गाथिन्, विदथिन्, केशिन, पणिन्, गणिन् इत्येतेषामिन्नन्तानामणि परेऽन्त्यस्वरादेलुग्न भवति । गाथिनोऽपत्यं गाथिनः, वैदथिनः, कैशिनः, 'पाणिनः, गाणिनः ॥५४ अनपत्ये ॥ ७. ४. ५५ ॥
इन्नन्तस्यापत्यादन्यत्रार्थे योऽण् तस्मिन् परेऽन्त्यस्वरादेलुग् न भवति । सांकूटिनं वर्तते, सांकोटिनम्, सांराविणम्, सामाजिनम् गभिणीनां समूहो माभिणम् । भिक्षादित्वादण् । गुणिन इदं गौणिनम्, स्त्रग्विण इदं स्वाग्विणम अनपत्ये इति किम् ? मेधाविनोऽपत्यं मैधावः । अणीत्येव ? गर्भिणां समूहो गार्भम्, दण्डिनां दाण्डम्, चक्रिणां चाक्रम् । श्वादिभ्योऽन् ' ( ६-२-२६) इत्यञ् ।५५।
न्या० स० अन०-गामिणमिति ‘जातिश्च' ३-२-५१ इति पुंवत् , अन्यथा 'स्वरस्य' ७-४-११० इति स्थानित्वात् प्राप्तिरेव न । उक्ष्णो लुक् ॥ ७. ४. ५६ ॥
उक्षनशब्दस्यानपत्येऽणि परेऽन्त्यस्वरादेलुंग भवति । उक्षण इदमौक्षं पदम् । अनपत्य इत्येव ? उक्ष्णोऽपत्यमोक्षणः ॥५६॥