________________
३६८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० ३२-३६ । न्या० स० वान्त० सकाराभावश्चेति 'नाम सिदयूव्यञ्जने' १-१-२१ इति पदत्वात् सकारः प्राप्तः । विन्मतोर्णीष्ठेयसौ लुप् ॥ ७. ४. ३२ ॥
विन्मतु इत्येतयोः प्रत्यययोणि इष्ठ इयसु इत्येतेषु प्रत्ययेषु परेषु लुब् भवति । स्रग्विणमाचष्टे स्रनयति, अयमेषां स्रग्विणामतिशयेन स्रग्बी स्रजिष्ठः । अयमनयोः स्रग्विणोरतिशयेन स्रग्वा स्रजोयान्, त्वग्वन्तमाचष्टे त्वचयति, अयमेषामतिशयेन त्वग्वान् त्वचिष्ठः, अयमनयोरतिशयेन त्वग्वान् त्वचोयान्, कुमुदन्तमाचष्ठे कुमुदयति, कुमुदिष्ठः, कुमुदोयान्। अत एव वचनादगुणाङ्गादपीष्ठेयसू । निर्दिश्यमानत्वात् प्रत्ययमात्रस्य लुप् ।३२। ___ न्या० स० विन्म०-स्रजिष्ठ इति अत्रान्तवर्त्तिविभक्त्यपेक्षया यथा विन्नन्तस्य इष्ठप्रत्यये प्राप्तस्य पदत्वस्य सित्येवेति नियमेन निषेधस्तथा विन्लोपेऽपि, न च 'प्रत्ययः प्रकृत्यादेः" ७-४-११५ इति विन्नन्तादिष्ठप्रत्ययो विहितोऽतस्तस्यैव नियमेन पदत्वाभावो, न तु विन्लोपे पाश्चात्यस्येति यतः 'प्रत्ययः प्रकृत्यादेः' ७-४-११५ इति परिभाषायाः 'षड्वर्जेक०' ७-३-४० इत्यत्र षड्वर्जनेनानित्यत्वज्ञापनात् , एवं त्वचिष्ठ इत्यादिष्वपि दृश्यम् । अल्पयूनोः कन्वा ।। ७. ४. ३३ ।।
अल्प युवन इत्येतयोणि इष्ठ ईयसु इत्येतेषु परेषु कन् इत्ययमादेशो वा भवति । कनयति, कनिष्ठः, कनीयान्, पक्ष-अल्पयति, अल्पिष्ठः, अल्पीयान, यवयति, यविष्ठः यवीयान् ।३३।
न्या० स० अल्प०-अत्रापि अगुणाङ्गादपि इष्ठेयसू वचनसामर्थ्याद् भवतः, अन्यथा 'स्थूलदूर' ७-४-४२ इत्यनेनान्तस्थादेवयवस्य लुबपि न स्यात् तयोरभावात् एवमुत्तरेष्वपि दृश्यम् । प्रशस्यस्य श्रः ॥ ७. ४. ३४ ॥
प्रशस्यशब्दस्य णीष्ठेयसुषु परत: श्र इत्ययमादेशो भवति । यति श्रेष्ठः, श्रेयान् ।३४। वृद्धस्य च ज्यः ॥ ७. ४. ३५ ॥
वृद्धशब्दस्य प्रशस्य शब्दस्य च णोष्ठेय सुषु परतो ज्य इत्यादशो भवति । ज्ययति, ज्येष्ठः ।३५॥ ज्यायान् ॥ ७. ४. ३६ ॥
ज्यायानिति पूर्वसूत्रेण विहिताज्ज्यादेशात्परस्येयसोरीकारस्य आकारादेशो निपात्यते । अयमनयोरतिशयेन प्रशस्यो वृद्धो वा ज्यायान्, ज्यायसी ।३६।