________________
[पाद. ४. सू. ३७-३९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३६९
न्या० स० ज्याया०-आकारादेश इति अत्राकारस्यापि निपातने ज्यायानिति सिध्यति 'लुगस्यादेत्यपदे' २-१-११३ इत्यस्याकारकरणादेवाप्रवृत्तेः प्रक्रियानिरासार्थ त्वाकारकरणम् । बाढान्तिकयोः साधनेदौ ॥ ७. ४. ३७ ।।
बाढ अन्तिक इत्येतयोर्णीष्ठेयसुषु परतो यथासंख्यं साधनेद इत्येतावादेशी भवतः । साधयति, साधिष्ठः, साधीयान्, नेदयति, नेदिष्ठः, नेदीयान् ।३७। __ न्या. स० बाढा० साधनेद इति अदन्तावेताविति समानलोपित्वादससाधदियत्र ङपरे णौ सन्वदादिकार्याभावः । प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्था
स्फावरगरबंहत्रपदाघवर्षवृन्दम ॥ ७. ४.३८ ॥ प्रियादीनां यथा संभवमिमनि णीष्ठेयसुषु च यथासंख्यं प्रा इत्यादय आदेशा भवन्ति । प्रियस्य प्रा,-प्रेमा, प्रापयति, प्रेष्ठः, प्रेयान् । स्थिरस्य स्था, स्थेमा, स्थापयति, स्थेष्ठः, स्थेयान् । स्फिरस्य स्फा,-स्फापयति, स्फेष्ठः, स्फेयान् । उरोवर,-वरिमा, वरयति, वरिष्ठः, वरीयान् । गुरोर्गर,-गरिमा, गरयति, गरिष्ठः, गरोयान् । बहुलस्य बंह,-बंहिमा, बंयति, बंहिष्ठः, बहीयान् । तृप्रस्य त्रप्-त्रपिमा, त्रपयति, त्रपिष्ठः, पीयान् । दीर्घस्य द्राघद्राघिमा, द्राघयति, द्राघिष्ठः, द्राधीयान् । वृद्धस्य वर्ष-वषिमा, वर्षयति, वर्षिष्ठः, वर्षीयान् । वृन्दारकस्य वन्द्-वृन्दिमा, वृन्दयति, वृन्दिष्ठः, वृन्दीयान् । स्फिरशब्दस्यावर्णत्वादपृथ्वादित्वाददृढादित्वाच्च नेमन्-प्रत्ययः। वरादीनामकार उच्चारणार्थः, कश्चित्त करोत्यर्थे णौ प्राद्यादेशं नेच्छति, तन्मते प्रिययति, स्थिरयतीत्यादि ।३८।। ____ न्या० स० प्रिय०-स्थेमेति अत्र बहुवचनसामर्थ्यात् 'वर्णदृढादिभ्यः' ७-१-५९ इतीमन् , शेषेषु 'पृथ्वादेरिमन् वा' ७-१-५८ वृन्दारकात् 'वर्णदृढादिभ्यः ष्ट्य ण् च वा' ७-१-५९ इत्यनेनेमन् । पृथुमृदुभृशकृशदढपरिवृढस्य ऋतो रः ॥ ७. ३. ३९ ॥
पृथ्वादीनामृकारस्येमनि णीष्ठेयसुषु च परेषु रशब्द आदेशो भवति । प्रथिमा, प्रथयति, प्रथिष्ठः, प्रथीयान्, म्रदिमा, म्रदयति, म्रदिष्ठः, म्रदीयान्, भ्रशिमा, भ्रशयति, भ्रशिष्ठः, भ्रशीयान्, ऋशिमा, क्रशयति, ऋशिष्टः, क्रशीयान्, द्रढिमा, द्रढयति, द्रढिष्ठः, द्रढोयान्, परिवढिमा, परिवढयति, - परिवढीष्ठः, परिवढीयान् । केचित्तु वृढशब्दस्यापीच्छन्ति । वढिमा, वढयति, वढिष्ठः, वढीयान् । पृथ्वादीनामिति किम् ? ऋजिमा, ऋजयति, ऋजिष्ठः,