SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ । पाद. ३. सू. ३०-३१] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [३६७ सति ईत्वं 'देवतानामावादी' ७-४-२८ इत्युभयपदवृद्धिश्च प्राप्नोति, द्वयोः प्राप्तौ परत्वादुभयपदवृद्धिः क्रियते, तस्यां च सत्यां विशेष विहितत्वात् 'इवृद्धिमत्य वष्यौ' ३-२-४३ इति इकार एव । __एकादशकपालमिति एकादशसु कपालेषु संस्कृतं 'संस्कृते भक्ष्ये' ६-२-१४० इत्यण 'द्विगोः' ७-१-१४४ इति लुग् । __पूर्वेषु कामशम इत्यादीत अत्र भवेऽण् 'प्राधामाणाम् ' ७-१-१७ इत्युतरपदवृद्धिः, अत्र यदि पूर्व संधिः स्यात्तदा इकारस्य पूर्व पदत्वात् षुसंवन्धिन र कारस्य वृद्धिः स्यात् ।। सास्वैश्वाकमैत्रेयभ्रीणहत्यधैवत्यहिरण्मयम् ॥ ७. ४. ३० ।। सारवादयः शब्दा अणादिप्रत्ययान्ताः कृतारलापादयो निपात्यन्ते । सरवां भवं सारवमुदकम्, सरयूशब्दस्याणि प्रत्ययेऽयित्यस्य लोपः। इक्ष्वाकोरपत्यमैक्ष्वाकः । ' राष्ट्रक्षत्रियात्'-(६-१-११४) इत्यादिनाञ् । इक्ष्वाकोरिदमैक्षवाकम्, इक्ष्वाकुशब्दस्य अभि अणि चोकारलोपः । मित्रयोरपत्यं मैत्रेयः, मित्रयुशब्दस्य गृष्ट्यादित्वादेयनि युलोपः । अथ मित्राशब्दो विदादिषु किं न पठयते । तथा च ' केकयमित्रयुप्रलय'-(७-४-२) इत्यादिनेयादेशेनैव सिध्यतीति नेदं निपातनमारब्धव्यं भवति । यस्कादिषु च मित्रयुशब्दो बहुषु लुबर्थ न पठितव्यो भवति ' याञः' (६-१-१२६) इत्यादिनैव सिद्धत्वात् । उच्यते, अनि सति मित्रयूणां संधो मैत्रेयकमित्यत्राकडं बाधित्वाण स्यादिति विदादिषु न षठ्यते । भ्रूणघ्नो भावः कर्म वा भ्रौणहत्यम्, धोनो भावः कर्म वा धैवत्यम् । अत्र ट्यणि नकारस्थ तकारः। हिरण्यस्य विकारो हिरण्मयम्, अत्र मयटि यशब्दलोपः ।३०।। वान्तमान्तितमान्तितोऽन्तियान्तिषद् ॥ ७. ४. ३१ ॥ अन्तमादयः शब्दास्तमवादिप्रत्ययान्ताः कृततिकादिलोपादयो वा निपात्यन्ते । अयमेषामतिशयेनान्तिकः अन्तमः पक्षे अन्तिकतमः, अत्रान्तिकशब्दस्य तमप्प्रत्यये तिकशब्दलोपो 'नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्याधुट्परे' इति सकाराभावश्च निपात्यते। अयमेषामतिशयेनान्तिकः अन्तितमः । अत्र कशब्दस्य लोपः, पक्षे अन्तिकतमः। अन्तिकादागच्छति अन्तित आगच्छति, अत्रापादानलक्षणे तसौ कशब्दस्य लोपः। पक्षेऽन्तिकत आगच्छति, अन्तिके साधुः अन्तियः, अत्र यप्रत्यये कशब्दस्य लोपः इकारस्य च लोपाभावः । पक्षे अन्तिक्यः । अन्तिके सीदति अन्तिषद, अत्र सदिति किबन्ते कलोपः सस्य षत्वं च । पक्षे अन्तिकसत् ।३१॥
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy