________________
बृहवृत्ति-लघुन्याससंलिते । पान. ३ सू० २८-२९ ] सार्ववैद्यमिति सर्वे वेदाः सर्वा विद्या वा भेषजादिभ्यष्ट्रयणि 'अवर्णेवर्णस्य' ६-४-६८, यदा विद्या तदा 'व्यञ्जनात् पश्चम' १-३-४७ इति यस्य लुक् ।
राजपुरुषार्याणरिति अत्र 'अवृद्धात्' ६-१-११० इत्यायनिञ् । देवतानामात्वादौ ॥ ७. ४. २८॥
देवतार्थानां शब्दानामात्वादौ विषये णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरे वादेः स्वरस्य वृद्धिर्भवति । अग्निश्च विष्णुश्च देवता अस्य आग्नावैष्णवं सूक्तम्, ऐन्द्रापौष्णं हविः, आग्निमारुतं कर्म, आग्निवारुणीमनड्वाहीमालभेत । आत्वादाविति किम् ? स्कन्दविशाखयोरिदं स्कन्दविशाखम्, ब्राह्मप्रजापत्यम् । 'वेदसहश्रुतावायुदेवतानाम्' (३-२-४१) इत्यत आरभ्य 'उषासोषसः' (३-२-४६) इति यावदात्वादयः ।२८।। ... न्या. स० देवता०-विशाखः स्कन्दमिजम् । ब्राह्मप्रजापत्यमिति अत्र पत्यवयवयोगात् प्रजाप्रतिशब्दोऽपि पतिरिति 'अनिदम्य' ६-१-१५ इति ज्यः, भावे ‘पतिराजन्त' ७-१-६० इति ट्यण् वा ।
आतो नेन्द्रवरुणस्य ॥ ७. ४. २९ ॥
आकारान्तात्पूर्वपदात्परस्य इन्द्रशब्दस्य वरुणशब्दस्य चोत्तरपदस्य स्वरेष्वादेः स्वरस्य वद्धिर्न भवति । अग्निश्च इन्द्रश्च अग्नेन्द्रौ, तौ देवता अस्य आग्नेन्द्रम् सूक्तम्, सौमेन्द्रं हविः, ऐन्द्रावरुणम्, मैत्रावरुणम् । आत इति किम् । आग्निवारुणम् । उत्तरपदस्येत्येव ? ऐन्द्राग्नम् एकादशकपालं पुरोडाशं निर्वपेत् । ननु चेन्द्रशब्दस्य द्वौ स्वरौ तत्राद्यः संधिकार्येण ह्रियतेऽपरो 'ऽवर्णेवर्णस्य' (७-४-६८) इत्यतोऽस्वर एवेन्द्रशब्दस्तस्य कि वृद्धिप्रतिषेधेन ? सत्यम, किन्त्वनेनेतज्ज्ञाप्यते । बहिरङ्गमपि पूर्वं पूर्वोत्तरपयोः कार्यं भवति पश्चात्सधिकार्यम्, तेन पूर्वेषुकामशम इत्यादि सिद्धं भवति ।२९। ___ न्या० स० आतो० आग्नेन्द्रं सूक्तमिति नन्वग्निश्चेन्द्रश्चाग्नेन्द्रौ तौ देवते अस्येति विग्रहे आकारो न प्राप्नोति, यतः अन्तरङ्गानपि विधीन बहिरङ्गापि लुप् बाधते इति इः कथं न स्यात् यथा आग्निवारुणमिति व्यावृत्त्युदाहरणे, अथ सूत्रसामर्थ्यादाकारी भविष्यतीति इति चेत् , न, सूत्रमन्यत्रापि चरितार्थ यथा सौमेन्द्रं हविरिति, अथ 'इवृद्धिमति' ३-२-४३ इति इ: प्राप्नोति, न यतोऽग्निशब्दस्य प्रत्ययादि 'ई:षोम' ३-२-४२ इति सूत्रादग्नेरित्यनुवृत्तेः? ___ उच्यते, 'आतो नेन्द्र' ७-४-२९ इति सूत्रं व्यक्ती प्रावर्त्तिष्ट तत एतत्सूत्रादाकारो भवत्येव ।
आग्निवारुणमिति अग्निश्च वरुणश्च देवताऽस्येति विग्रहेऽणि सति 'ऐकायें। ३-२-८ इत्यनेन विभक्तिलोपः 'ईः षोमवरुणेऽग्नेः' ३-२-४२ इत्यन्तरगामीत्वं च ततो अन्तरगानपि विधीन् बहिरङ्गापि लुप् बाधते इति न्यायात् लुबेव प्रवर्त्तते, ततो विभक्तिलोपे