________________
पाद. ४. सू, २६-२७] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३६५ हल्लास' ३-२-९४ इत्यत्र निरनुबन्धग्रहणे इति न्यायान्निरनुबन्धस्यैव यस्य ग्रहणेन दयणि हृदादेशाभावात् ।।
बहुलाधिकारादिति 'इसुसोर्बहुलम्' ७-२-१२८ इत्यतोऽनुवृत्तात् ।
मित्रामित्रार्थयोरिति ननु सुहृदुईच्छब्दयोर्मित्रार्थयोरिति विशेषणं किमर्थं मित्रामित्रार्थयोरेव सुहृदुहृद्रूपसमामान्तविधानेनाव्यभिचारात् !
सत्य, सुहृदयदुहृदयशब्दयोः गफरार्थयोर्यदा 'तस्येदम्' ६-३-१६० इत्यणि 'हृदयस्य हल्लास' ३-२-९४ इत्यनेन हृदादेशस्तदापि सुहृदुईच्छब्दौ स्त इति तद्व्यवच्छेदार्थ मित्रामित्रार्थयोरित्युक्तम् ।
तत्र तदन्तविधेरि ति न केवल सिन्धु इत्यस्य केबलस्य कच्छादी पाठात् केवलान् प्रत्ययः किंतु सिन्ध्यन्तेति पाठात् तदन्तादपीत्यर्थः । प्राचां नगरस्य ॥ ७. ४. २६ ॥
प्राचां देशे वर्तमानस्य नगरान्तस्य शब्दस्य णिति तद्धि ते परे आदेः 'पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुमनगरे भवः सौह्मनागरः, पौण्डनागरः, वाजु (व्रांज) नागरः, बैराटनापरः, पैरिनागरः । प्राचामिति किम् ? उदीचां माडनागरः ॥२६॥
न्या० स० प्राचां-पुण्डामडाश्च पुरुषविशेषाः । अनुशतिकादीनाम् ॥ ७. ४. २७ ॥
अनशतिक इत्येवमादीनां शब्दानां णिति तद्धिते परे पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । अनुशतिकस्येदमानुशातिकम्, अनुशतिकस्यापत्य मानुशातिकिः, अनुहोडेन चरति आनुहौडिकः ।
___अनशतिक, अनुहोड, अनुसंवत्सर, अनुसंवरण, अनुरहत्, अगारवेणु, असिहत्या, अश्वि (स्य.) हत्य, अस्यहेति, अस्यहेतु, अनिषाद, अधेनु, कृरुरुत, कुरुपञ्चाल, अधिदेव, अधिभूत, इहलोक, परलोक, सर्वलोक, सर्वपुरुष, सर्वभूमि, बध्योग, प्रयोग, अभिगम, परस्त्री, पुष्करसद्, उदकशुद्ध, सूत्रनड, चतुर्विद्या, शातकुम्भ, सुखशयन इत्यनुशतिकादिः । आकृतिगणोऽयम्, तेन राजपौरुष्यादयष्टधणन्ता अत्रैव पटय ते । राजपौरुष्यम्, पारिमाण्डल्यम्, प्रातिभाष्यम्, सार्ववैद्यम् । प्रत्ययान्तरे त्वादेरेव बृद्धिः। राजपुरुषस्यापत्यं राजपुरुषायणि: । ।२७। ___ न्या० स० अनु० -पारिमाण्डल्यमिति परिमण्डलमणूनां परिमाणं तद्योगात् परमाणवोऽपि परिमण्डलास्तेषां भावः।
प्रातिभाव्यमिति प्रतिभुवो भावः दयणि उभयपदवृद्धौ ‘य्यक्ये १-२-२५ इत्यावादेशः, * अस्वयंभुवोऽव् ' ६-४-७० इति कृते पश्चादुभयपदवृद्धिर्वा ।