________________
३६४ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू. २४-२५ । अकारान्तः ।२३।
न्या. स. नत्रः-भक्षेत्रज्ञमिति ‘नतत्पुरुषादबुधादेः' ७-१-५७ इत्यनेन ट्यण् न' बाध्यते, क्षेत्रज्ञेश्वरयोर्बुधादिपाठात् ।
न विद्यते शुचिरस्येति वेति पूर्वप्रयोगापेक्षया वा न तु वाक्यापेक्षया नञ्तत्पुरुषे हि 'नबतत्पुरुषात् ' ६-३-७१ इति त्वतलावेव स्यातामतो बहुव्रीहिरेव कार्यः । . अव्ययीभावो वेति तथेत्यस्य योग्यत्वं पुरेत्यस्य योग्यत्वं तथेत्यस्य पुरेत्यस्य चानतिक्रम इति वा यथातथं, यथापुरम् । अकारान्त इति अव्ययीभावस्य नपुंसकत्वे 'क्लीबे' २-४-९७ इत्यनेन ह्रस्वः । जङ्गलधेनुवलजस्योत्तरपदस्य तु वा ॥ ७. ४. २४ ॥
आदेरित्यनुवर्तते । वेति तु निवृत्तम्। उत्तरपदस्य चेत्यकरणात् । जङ्गल, धेनु, वलज इत्येतदुत्तरपदानां शब्दानामादेः पूर्वपदस्य गिति तद्धिते परे स्वरेष्वादेः स्वरस्य नित्यं वृद्धिर्भवति । उत्तरपदस्य पुनर्वा भवति । कुरुजङ्गलेषु भवः कौरुजङ्गलः, कौरु जाङ्गलः, वैश्वधेनवः वैश्वधैनवः, सौवर्णवलजः सौवर्णवाल जः ।२४।
न्या० स० जङ्गल०-वैश्व(नव इत्यत्र ‘उत्सादेरम्' ६-१-१९ शेषेषु ‘भवे' ६-३-१२३ अण् ।
हृदभगसिन्धोः ॥ ७. ४. २५ ।।
__ आदेरुत्तरपदस्येति च द्वयमनुवर्तते, हृद्भगसिन्धु इत्येवमन्तानां शब्दाना णिति तद्धिते परे आदेः पूर्वपदस्योत्तरपदस्य च स्वरेष्वादेः स्वरस्य वृद्धिर्भवति ।
__सुहृदः सुहृदयस्य वा इदं भावः कर्म वा तस्येदम् ' (६-३-१५९) इत्यणि युवाद्यणि वा सौहार्दम्, एवं दौहार्दम् । सुहृदो भावः कर्म वा राजादित्वात् टयणि सौहार्यम्, दौहार्यम् । बहुलाधिकारात् मित्रामित्रार्थयोः सुहृदुहृच्छब्दयोः, सौहृदम् दौ« दमित्यपि भवति । सुभगस्य भावः सौभाग्यम्, दौर्भाग्यम्, सुभगाया अपत्यं सौभागिनेयः, दो गिणेयः, एकपदत्वाण्णत्वम् । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, तेषु भवः साक्तुसैन्धवः, पानसैन्धवः, लावणसैन्धवः, माहासैन्धवः, सौरसैन्धवः । कच्छादित्वादण । तत्र तदन्तविधेरपीष्टत्वात् ।२५।।
न्या० स० हृद् भग०–सुहृदस्य वेति मित्रार्थत्वाभावान्न 'सहृदुई। ७-३-१५७ इत्यनेन सुहृदादेशः, तथा चाणि सति 'हृदयस्य' ३-२-९४ इति हृदादेशः । सौहार्यमिति अयं सुहृशब्दस्यैव प्रयोगः सुहृदयशब्दस्य तु ट्यणि सौहृदय्यमित्येव भवति, हृदयस्य