________________
[द. ४. सू. १९ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३६१ विहितो भवति । द्वाभ्यां वर्षाभ्यां निवृत्तः द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा द्वे वर्षे भूतो वा द्विवार्षिकः, त्रिवार्षिकः, अधिकवार्षिकः । अभाविनीति किम् ? द्वे वर्षे भावि द्वैवर्षिक त्रैवर्षिकम् धान्यम्, द्वाभ्यां वर्षाभ्यां भृतोऽधीष्टो वा कर्म करिष्यति द्विवार्षिको मनुष्य इति, अधीष्टभृतयोः प्रत्ययो नभाविनीति प्रतिषेधो न भवति । गम्यते ह्यत्र भविष्यत्ता न तु प्रत्ययार्थः ।१८।
न्या० स० संख्या०-ननु द्विवार्षिक इत्यादौ 'निर्वृत्ते' ६-४-२० इत्यादिभिरिकण न प्राप्नोति, तत्र 'कालात् परिजय्य' ६-४-१०४ इत्यतः कालादिति अधिकारात्, अत्र तु वर्षशब्द एव कालवाची, न तु द्विवर्षेत्यादिरिति ? ___सत्यं, 'संख्यादेश्चाईदलुचः' ६-४-८० इत्यनेन संख्यादेरपि कालवाचिनो भवतीति, तर्हि अधिक वार्षिक इत्यत्र कथं न ह्यधिकशब्दः संख्यावाचीति ?
सत्यं, अभाविनीतिव्यावृत्तिसामर्थ्यात , अभाविनीति व्यावृत्तवर्षिक इत्यादिषु चरितार्थत्वमिति चेत् , तर्हि अभाविनीव्यावृत्तेर्व्यक्त्या प्रवृत्तरिकण् भविष्यतीति । मानसंवत्सरस्याशाणकुलिजस्यानानि ॥ ७. ४. १९ ॥
मीयते परिच्छिद्यते येन तन्मानम् परिमाणादि । संख्याया अधिकशब्दाच्च परस्य शाणकुलिजशब्दजितस्य मानवाचिनः संवत्सरशब्दस्य च ञ्णिति तद्धिते परे स्वरेष्वादे: स्वरस्य वृद्धिर्भवति अनाम्नि असंज्ञायां विषये। संख्याधिकाभ्यां मानसंवत्सरस्य वचनभेदान्न यथासंख्यम् । द्वौ कुडवी प्रयोजनमस्य द्विकौडविकः, त्रिकौडविकः । अधिककोडविकः । द्वाभ्यां सुवर्णाभ्यां क्रीतं द्विसौवणिकं त्रिसौणिकम् । अधिकसौणिकम्, द्वाभ्यां षष्टिभ्यां निर्वत्तो द्वाभ्यां षष्टिभ्यां भूतोऽधीष्टो वा द्वे षष्टी भूतो भावी वा द्विषाष्टिकः, त्रिषाष्टिकः, अधिकषाष्टिकः, द्विसाप्ततिकः, अधिकसाप्ततिकः, द्विषष्टयादिशब्दाः संख्येये काले वर्तन्त इति कालाधिकारविहितं प्रत्ययमुत्पादयन्ति । द्वाभ्यां नवतिभ्यां क्रीतमिति ‘मूल्यैः क्रीते' (६-४-१५०) इतीकण् । तस्य अनाम्न्यद्विः पलुप् (६-४-१४१) इति लुपि द्विनवति द्रव्यम् तेन द्वौ च नवतिश्च द्विनवतिस्तया वा क्रीतं द्विनावतिकम्, एवं त्रिनावतिकम, संवत्सर, संवत्सर, द्वाभ्यां संवत्सराभ्यां निर्वत्तो द्वाभ्यां संवत्सराभ्यां भतोऽधीष्टो वा द्वौ संवत्सरौ भूतो भावी वा द्विसांवत्सरिकः, त्रिसांवत्सरिकः, संवत्सरग्रहणात् कालो मानग्रहणेन न गृह्यते तेन द्वैसमिकः, समिकः, द्वैरात्रिकः, त्रैरात्रिकः। अशाणकुलिजस्येति किम् ? द्वाभ्यां शाणाभ्यां क्रीतं द्वैशाणं, त्रैशाणम्, द्वे कुलिजे पचति संभवत्यवहरति च द्वैकुलिजिकः । त्रैकुलिजिकः। अनाम्नीति किम् ? पञ्च लोहिन्यः परिमाणमस्य पाञ्च