________________
३६० ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ४ सू० १६-१८ ] बहुविषयेभ्य इति 'सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य' ७-४-१५ इति ज्ञापकात्तदन्तस्यापि भवति । अमद्रस्य दिशः ॥ ७. ४. १६ ॥
दिग्वाचिनः परस्य राष्ट्रवाचिनो मद्रशब्दवजितस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । पूर्वपाञ्चालकः, अपरपाञ्चालकः, दक्षिणपाञ्चालकः, उत्तरपाञ्चालकः। अमद्रस्येति किम् ? पौर्वमद्रः, दिश इति किम् ? पूर्व पञ्चालानां पूर्वपञ्चालाः, अंशिसमासः, तेषु भवः पौर्वपञ्चालकः। अवयववृत्तेरपि पूर्वशब्दस्य दिशि दृष्टत्वेन दिक्शब्दत्वात्तदन्तविधौ सति 'बहुविषयेभ्यः' (६-३-४४) इत्यकञ् । एके त्वस्य दिक्शब्दत्वं नेच्छन्ति, तन्मते तदन्तविध्यभावेऽणेव । पौर्वपञ्चालः ।१६।
न्या० स० अम० -पूर्व पञ्चालानामिति अत्र पूर्वशब्दस्य दिगशब्दत्वाभावात् 'सुसर्वार्धदिक्शब्देभ्यो जनपदस्य ' ७-४-१५ इति न्यायेन दिक्शब्दात् परतो जनपदस्य तदन्तविधिर्विधीयमानो न प्राप्नोतीति कथं 'बहुविषयेभ्यः' ६-३-४५ इत्यक ?
इत्याह-अवयववृत्तेरपीत्यादि तत्र हि दिक्शब्देभ्य इत्युक्तं न तु दिग्वाचिन इति । प्राग्ग्रामाणाम् ॥ ७. ४.१७॥
. प्रारदेशग्रामवाचिनां योऽवयवो दिग्वाची ततः परस्यावयवस्य दिशः परेषां च प्राग्ग्रामवाचिनां णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । पूर्वकृष्णमृत्तिका नाम प्राक्षु ग्रामः तत्र भवः पूर्वकार्णमृत्तिकः, एवमपरकार्णमृत्तिकः, पूर्वेषुकामशमी नाम प्राग्ग्रामस्तत्र भवः पूर्वेषुकामशमः, एवमपरषुकामशमः, बहुवचनाद् ग्रामग्रहणेन नगरमपि गृह्यते। पूर्वस्मिन्कन्यकुब्जे भवः पूर्वकान्यकुब्जः, अपरकान्यकुब्जः, एवं पूर्वपाटलिपुत्रकः, अपरपाटलिपुत्रकः । प्राग्ग्रहणं किम् ? देवदत्तं नाम वाहीकग्रामः पूर्वस्मिन्देवदत्ते भवः पौर्वदेवदत्तः, आपरदेवदत्तः ॥१७॥
न्या० स० प्रागू०-अत्र सूत्रार्थद्वयं तत्रावयवस्येत्यनः प्रथमः सूत्रार्थः, दिशः परेषामित्यादिस्तु द्वितीयः, तत्र 'प्रथमसूत्रार्थापेक्षयापरमेषुकामशम इत्यन्तानि यतः पूर्वकृष्णमृत्तिकादीनि अखण्डानि प्रागग्रामनामानि, एषु सर्वेषु भवेऽण् । द्वितीयसूत्रार्थापेक्षया पूर्वकान्यकुब्ज इत्यादीनि, एषु सर्वेषु भवेऽण् ।।
पूर्वपाटलिपुत्रक इत्यत्र ‘संज्ञा दुर्वा' ६-१-६ इति वा दुसंज्ञायां 'रोपान्त्यादका' ६-३-४२ दुसंज्ञाया अभावे त्वणन्तात्स्वाथे कः ।
संख्याधिकाभ्यां वर्षस्याभाविनि ॥ ७. ४. १८॥ . __ संख्यावाचिनोऽधिकशब्दाच्च परस्य वर्षशब्दस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति अभाविनि न चेत्स तद्धितो भावीत्यस्मिन्नर्थे