________________
[ पाद. ४. सू १३-१५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३५९ प्रोष्ठभद्राज्जाते ॥ ७. ४. १३ ॥
वद्धिरित्यनुवर्तते, प्रोष्ठशब्दाद् भद्रशब्दाच्च परस्य पदशब्दस्योत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने जातेऽर्थे विहिते णिति तद्धिते परे वृद्धिभवति । प्रोष्ठपदासु जातः प्रोष्ठपादः, भद्रपादो माणवकः । जात इति किम् ? प्रोष्ठपदासु भवः प्रौष्ठपदो मेघः, ऊर्ध्वमौहूतिक इति ‘सप्तमी चोर्ध्वमौहूति के ' (५-४-३०) इति निपातनात्, गुरुलाघवमिति गुरोलाघवं गुरुश्च गुरुत्वं लाघवं चेति वा, संहतपारार्थ्यमिति संहते पारार्थ्यमिति सिद्धमतो नार्थ उत्तरपदवृद्धि विधानेन ।१३।
न्या० स० प्रोष्ठ०-प्रकृतिहरीतक्यादिरिति वचनात् कालेऽपि प्रोष्ठपदादयः स्त्रीलिङ्गाः। अंशादतोः ॥ ७. ४. १४ ॥
अंशवाचिनः शब्दात्सरस्य ऋतुवाचिन उत्तरपदस्य स्वरेष्वादेः स्वरस्य स्थाने णिति तद्धिते परे वृद्धिर्भवति । पूर्वासु वर्षासु भवः पूर्ववार्षिकः, अपरवार्षिकः । 'वर्षाकालेभ्यः' (६-३-७९) इतीकण् । पूर्वशारदः, अपरशारदः पूर्वनैदाघः, अपरनैदाघः, पूर्वहैमनः, अपरहैमनः । ऋत्वण । अंशादिति किम् ? पूर्वासु ऋत्वन्तरैर्व्यवहितासु वर्षासु भवः पौर्ववर्षिकः, सुवर्षासु भवः सौवर्षिकः। ऋतोरिति किम् ? पूर्वपिप्पल्या इदं पौर्वपिप्पलम्, आर्धपिप्पलम् ।१४। . न्या० स० अंशा०-पूर्वासु वर्षास्विति अर्थकथनमिदं यावता 'पूर्वापरप्रथम' ३-१-१०३ इत्यनेन कर्मधारये पूर्ववर्षासु भवः पूर्व भागान्तर वर्षाणां वा इति कार्य, अन्यथांशवाचकत्वेन पूर्वस्यादिग्वाचित्वाभावात्, 'दिगधिकम् ' २-१-९८ इति न स्यात्, एवं पूर्वशारद इत्यादावपि यथा पूर्व भागान्तरं शरदः पूर्व भागान्तरं निदाघस्य तत्र भवः ।
ऋत्वन्तरैर्व्यवहितास्विति अत्र हि पूर्वशब्दो न वर्षाणामेकदेशं ब्रूते किंतु व्यवहितत्वमिति न पूर्वशब्दोंऽशवचनः। सुसर्वार्धाद्राष्ट्रस्य ।। ७. ४. १५॥
सू, सर्व, अर्ध इत्येतेभ्यः परस्य राष्ट्रवाचिन उत्तरपदस्य णिति तद्धिते परे स्वरेष्वादेः स्वरस्य वृद्धिर्भवति । सुपञ्चालेषु भवः सुपाञ्चालकः, सर्वपाञ्चालकः, अर्घपाञ्चालकः, सुमागधकः, सर्वमागधकः अर्धमागधकः । 'बहुविषयेभ्यः' (६-३-४४) इत्यकब् । राष्ट्रस्येति किम् ? सुगन्धाः पण्यमस्य सौगन्धिकः, अर्धपिप्पल्यां भव आर्धपिप्पलः ।१५। ... न्या० स० सुस-सुपाञ्चालक इति उत्सादौ पञ्चालशब्दो ब्राह्मणवाच्येव गृह्यत इति केचित् , तन्मतेन नात्रा किंत्वकमेव ।