________________
३५८ ]
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू. ९-१२ ] ____न्या स० न्यङ्को-न्यञ्चतीति 'नेरुचेरुः' ७२४ ( उणादि ) 'न्यबृद्ग' ४-१-११२ इति कः, व्युत्पत्तिपक्षे पूर्वेण प्राप्ते विभाषा, अव्युत्पत्तिपक्षे त्वप्राप्ते । न अस्वङ्गादेः ॥ ७. ४. ९ ॥
अप्रत्ययान्तस्य स्वङ्गादेश्च णिति तद्धिते परे य्वः प्रागैकार कारौ न भवप्तः । , व्यावकोशी, व्यावलेखी, व्यावचर्ची, व्यावहासी, व्यात्युक्षी। 'व्यतिहारेऽनीहादिभ्यो नः'-(५-३-११६) इति नः। ततो नित्यं अजिनोऽण् '-(७-३-५८) इत्यण् । स्वङ्गादि, स्वङ्गस्यापत्यं स्वाङ्गिः, व्याङ्गिः, व्याडिः, स्वागतमित्याह स्वागतिकः, स्वध्वरेण चरति स्वाध्वरिकः, व्यवहारेण चरति व्यावहारिकः,। व्यायामः प्रयोजनमस्याः व्यायामिकी विद्या ।
स्वङ्ग, व्यङ्ग, व्यड, स्वागत, स्वध्वर, व्यवहार, व्यायाम इति स्वङ्गादिः ।९।
श्वादेरिति ॥ ७. ४. १०॥ ___ श्वन्शब्द आदिरवयवो यस्य तस्य श्वादेर्नाम्न इति इकारादौ णिति तद्धिते प्रत्यये परे वः प्रागौकारो न भवति । श्व भवस्यापत्यं श्वाभस्त्रिः, श्वाशीषिः, श्व दंष्ट्रिः, श्वगणेन चरति श्वागणिकः, श्वायूथिकः आदिग्रहणं किम् ? श्वभिश्चरति शौविकः। इतीति किम् ? श्वहानस्येदं शौवहानम्, शौवभखम्, श्वादंष्ट्रायाः विकारः शौवादंष्ट्रो मणिः ।१०।
इञः ॥ ७. ४. ११ ॥ __वादेरि प्रत्ययान्तस्य णिति तद्धिते परे वकारातप्रागौकारो न भवति । श्वाभवेरिदं श्वाभत्रम्, श्वाकर्णेः श्वाकर्णम् । इकारादौ निमित्त उच्यमानः पूर्वेण प्रतिषेध इअन्तस्य प्रत्ययान्तरे न प्राप्नोतीति वचनम् ।११॥
न्या० स० इत्र:०-इवाकर्णेरिति वाक्ये पूर्वेण औन्निषेधः । पदस्यानिति वा ॥ ७. ४. १२ ॥ ... पदशब्दान्तस्य श्वादेः शब्दस्य इकारादिजिते णिति तद्धिते परे वकारात्प्रागौकारो वा भवति । शुन इव पदमस्य श्वापदम्, तस्य विकारः श्वापदं, शौवापदम् । अनितीति किम् ? श्वापदेन चरति श्वापदिकः । श्वनशब्दस्य द्वारादिषु पाठात् तत्र तदादिविधेर्जापितत्वान्नित्यमौकारागमे प्राप्ते विकल्पः ।१२।
न्या० स० पद – श्वापदशको बाहुलकात पुनपुंमकः ।