________________
[पाद ४. सू. ७-८] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३५७
द्वार, स्वर, स्वर, स्वस्ति, स्वादुमृद्, व्यल्कस, श्वस, श्वन्, स्फ्यकृत, स्व, स्वाध्याय, स्वग्राम इति द्वारादिः ।६।
न्या० स० द्वारा०-सौच इत्ति अत्र भवे अण, अथ स्वर्शब्दस्याव्ययत्त्वात् 'सायंचिरम् । ६-३-८८ इत्यनेन कथं न तन ?
सत्यं, 'वर्षाकालेभ्यः' ६-३-८० इत्यतः कालाधिकारात् ।
वैयल्कस इति अत्र यकारस्वरस्य वृद्धिप्राप्तिरिति यात्प्रागैकारः, न तु वात् प्रागौकारः, चकारसमीपे स्वरस्यैवाभावेन वृद्धिप्राप्तिर्नास्तीति ।।
विपूर्वस्येति० विगतो अर्कः, व्यकं स्यति 'आतो डः' ५-१-७६ इत्ति डः ऋफिडादिस्वादस्य लः।
शौवनमित्ति संकोच एवान्त्यस्वरादिलोपविधानादत्र मांसे वाच्ये न भवति । श्वादेरितीति० श्वन्शब्दोऽपि द्वारादिस्तत्र तदादेः कार्यप्रतिषेधात् तत्प्राप्तिर्विज्ञायत इत्यर्थः । शौवादंष्ट्र इति अत्र यद्यपि वादंष्ट्रायां भव इति वाक्ये श्वनशब्दस्यात्वं दृश्यते, तथापि 'शुन:' ३-२-९० इत्यस्मिन्नात्वविधायके सूत्रे बहुलाधिकारादणि प्रत्यय एव सत्यात्वं भवत्ति, अन्यथा प्रथममात्वे कृते 'दोरीयः' ६-३-३२ इतीयः स्यात् ।
सौवभस्त्र इति० श्वेव भस्त्रा यस्य बाहुलकात् 'शुनः' ३-२-९० इति न दीर्घः । न्यग्रोधस्य केवलस्य ।। ७. ४. ७॥
म्यग्रोधशब्दस्य केवलस्य यो यकारस्तस्य स्थानी अव्युत्पत्तिपक्षे तु समीपो यः स्वरेष्वादिः स्वरस्तस्य तत्प्राप्तौ वृद्धिप्राप्तौ तस्मादेव यकारात् प्राक ऐकार आगमो भवति णिति तद्धिते परे । न्यग्रोधस्य विकारो नैयग्रोधो दण्डः, नैयग्रोधः कषायः । केवलस्येति किम् ? न्यग्रोधमूले भवा न्याग्रोधमूलाः शालयः, न्यग्रोधाः सन्त्यस्मिन् ऋश्यादित्वाच्चातुरथिकः कः-न्यग्रोधकम्, तत्र भवो न्यानोधकः । इदमपि द्वारादीनां तदादिविधेर्मापकम् । न्यग्रोहतीति न्यग्रोध इति व्युत्पत्तिपक्षे नियमार्थम् । केवलस्यैवेति । अव्युत्पत्तिपक्षे तु विध्यर्थं वचनम् ।।
न्या स० न्यग्रोधस्य०–इदमपीति न केवलं 'श्वादेः' ७-४-१० इति निषेधः, किंतु केवलग्रहणमपीत्यर्थः । नन्वेतत्सूत्रमपि किमर्थ कृतम् ! इत्याह-न्यगरोहतीत्यादि-अयमर्थः, यदा व्युत्पत्तिपक्ष आश्रीयते तदा न्यक्शब्दसाधनकाले या निशब्दात् प्रथमा, तदपेक्षया निसंबन्धिन इकारस्य पदान्तत्वात् तत्स्थानप्रादुर्भावात् यस्यापि पदान्तत्वे 'बः पदान्तात् ' ७-४-५ इत्यनेनैवदागमे सिद्धे सतीदं सूत्रं नियमार्थम् । अव्युत्पत्तिपक्षे तु यस्यापदान्तत्वात् 'वः पदान्तात्' ७-४-५ इति न सिध्यतीति विध्यर्थमिदम् । न्यकोर्वा ॥ ७. ४. ८ ॥
भ्यङ्कशब्दस्य तद्धिते णिति परे यकारात्प्रागैकारो वा भवति । न्यकोरिदं नैपडूवम्, न्याङ्कवम् ।८।