SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३६२] बृहदृत्ति-लघुन्याससंवलिते (पा० ४. सू० २० ] लोहितिकम्, पाञ्चकलायिकम । तद्धितान्तमिदं परिमाणविशेषस्य नाम ।१९। न्या० स० मान-द्विमौर्गिकमित्यादि अत्र तु 'सुवर्ण कार्षापणात्। ६-४-१४३ इत्येनेनेकणो वा लुप् भवति । ___ द्विषष्ट्यादिशब्दा इति द्वे षष्टी सप्तती वा दिवसानां मासानामर्धमासानां वेति विवक्षया कालवृत्तित्वम् । __कालाधिकारविहितमिति 'कालात परिजय्य' ६-४-१०४ इत्य स्मन् कालाधिकारे विहितं 'निवृत्ते' ६-४-२० इत्यादिभिः प्रत्ययमिकणरूपम् । कालो मानग्रहणेनेति मीगते अनेनेति व्युत्पत्या मानग्रहणेन कालस्यापि ग्रहणप्रसङ्गे सतीत्यर्थ. द्वैरात्रिक इत्यादि अत्र संख्याते' ६-३-११९ इत्यत् , तत इकण् । द्वैशाणमिति 'द्विव्यादेर्याण च' ६-४-१४७ इत्यण् तस्य च विधानस मथ्यात् 'अनाम्न्पद्विः प्लु' ६-४१४१ इति लुबभावः। द्वैकुलिजिक इति अत्र ‘संभव' ६-४-१६२ इति इकण्, 'कुलिजाद् वा' ६-४-१६५ इति वा लुप् । ___ पाञ्चलोहितिकमिति अत्र 'मानम्' ६-४-१६९ इतीकण् ‘जातिश्च णि' ३-२-५१ इति पुंवद्भावः। पाञ्चकलायिकमिति कलायो धान्यविशेषो मालविकासिद्धः, तत्कणानां पञ्चानां यावत् परिमाणं भवति, तावन्मात्रात्य परिमाणविशेषस्येदं नाम, अत्र एव 'अनाम्न्यद्विः प्लुप्' ६-४-१४१ इति लुबपि न भवति । अर्धात्परिमाणस्यानतो वा त्वादेः ॥ ७. ४. २०॥ अर्धशब्दात्परस्य परिमाणवाचिनः कुडवादेः शब्दरूपस्य णिति तद्धिते परे स्वरेष्वादे: स्वरस्थानतोऽकाररहितस्य वृद्धिर्भवति वा स्वादेः परिमाणात्पूर्वस्य स्वर्धशब्दस्य वा भवति । अर्धकुडवेन क्रीतम् अर्धकौडविकम, आधकोडविकम्, अर्धमौष्टिकम्, आर्धमौष्टिकम्, अर्धद्रौणिकम् आर्धद्रौणिकम् । परिमाणस्येति किम् ? अर्धक्रोशः प्रयाजनमत्य आर्धका [को] शिकम् । अनत इति किम् ? अर्धप्रस्थिकम्, आर्धप्रस्थिकम्, अर्धसिकम्, आकसिकम्, अर्धचमसिकम् । आर्धचमसिकम् आदिविकल्प उत्तरवृद्ध्यनपेक्ष इति भवत्येव । अतः प्रतिषेधादाकारस्य वृद्धिर्भवत्येव । अर्धखायाँ भवः अर्धखारीकः । पुनरत्र विशेषः सत्यामसत्यां वा वृद्धौ। उच्यते, अर्धखारी भार्यास्य अर्धखारीभार्य इति । यद्यत्र वृद्धिप्रतिषेधः स्यात् अयं तद्धितो न वृद्धि हेतुरिति पुवद्भावप्रतिषेधो न त्यात, यथार्धप्रस्थे भवार्धप्रस्थी सा भार्यास्य अर्धप्रस्थभार्य इति ।२०। __न्या० स० अर्द्ध०-अर्द्धकंसिकमितिअर्द्धकंसशब्दात् क्रीतेऽर्थे इकण न भवति, 'अर्द्धात्पलकंपकर्षात् । ६-४-१३४ इतीकटा बाधितत्वात्ततः प्रयोजनेऽर्थे इकण दृश्यः। अर्द्धप्रस्थभार्य इति अत्रानत इति भणनान्नोत्तरपदवृद्धिः, पूर्वपदस्यापि वा त्वादेः' इति वचनान्न भवति, ततस्तद्धितस्य स्वरवृद्धितहेतुत्वाभावान पुंवनिषेधः ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy