________________
॥ चतुर्थः पादः ॥ वृद्धिः स्वरेष्वादेणिति तद्धिते ॥ ७. ४. १ ॥
अिति णिति च तद्धिते प्रत्यये परे पूर्वो यः प्रकृतिभागस्तस्य स्वरेषु स्वराणां मध्ये य आदिः स्वरस्तस्य वृद्धिरादेशो भवति । मिति, दाक्षिः । प्लाक्षिः, काणिः, नैवाकविः, चौलिः, णिति,-कापटवः, भार्गवः, शैवः,
औपगवः । श्रीर्देवता अस्य श्रायः स्थालीपाकः, एवं हायः । स्वरेष्विति व्यञ्जनापेक्षाव्युदासार्थम्, तेन व्यञ्जनादेरपि भवति । णितीति किम् शङ्कव्यं दारु । तद्धित इति किम् ? चिकीर्षकः । १ । केकयमित्रयुप्रलयस्य यादेरिय्च ॥ ७. ४. २ ॥
केकयमित्रयुप्रलय इत्येतेषां णिति तद्धिते परे स्वेरष्वादेः स्वरस्य वृद्धिर्यादेश्च शब्दरूपस्य इयादेशो भवति । केकयस्यापत्यं कैकेयः। राष्ट्रक्षत्रियात् '-(६-१-११४) इत्यादिनाञ् । मित्रयोर्भावः मैत्रेयिकया श्लाघते । गोत्रचरण'-(७-१-७५) इत्यादिनाकञ् । प्रलयादागतं प्रालेयं हिमम् । 'तत आगते' (६-३-१४८) इत्यण् । णितीत्येव । केकयत्वम् ।। __अहं । न्या० स० देवि०-केवलानामेवेति ग्रहणवतेति न्यायात् । देविकाशिंशपादीर्घसत्रश्रेयसस्तत्प्राप्तावाः ॥ ७. ४. ३ ॥
देविकाशिशपादीर्धसत्रश्रेयस इत्येतेषां स्वरेष्वादेः स्वरस्य णिति तद्धिते निमित्ते तत्प्राप्तो वृद्धिप्रसङ्गे आकार आदेशो भवति । देविकायां भवं दाविकमुदकम्, देविकाकूले भवा दाविकाकूलाः शालयः पूर्वदेविका नाम प्राच्यग्रामस्तत्र भवः पूर्वदाविकः। अत्र 'प्राग्ग्रामाणाम् ' (७-४-१७) इत्युत्तरपदवृद्धिप्राप्तिः। शिशपाया विकारः शांशप: स्तम्भः, शिशपास्थले भवाः शांशपास्थलाः शालयः, पूर्वशिशपा नाम प्राच्यग्रामस्तत्र भवः पर्व. शांशपः, दीर्घसत्रे भवं दार्घसत्रम्, श्रेयोऽधिकृत्य कृतं श्रायसं द्वादशाङ्गम् । तत्प्राप्ताविति किमर्थम् ? सुदेविकायां भवः सौदेविक इत्यत्र निषेधार्थम पूर्वोत्तरपदानामपि यथा स्यादित्येवमथं च, अन्यथा हि केवलानामेव स्यात् ।।