________________
[ पाद. ३. सू. १८२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [३५३ तत्पुरुषेण सिद्धे बहुव्रीही कच् मा भूदिति वचनम् ।१८१॥
सुवादिभ्यः ॥ ७. ३. १८२ ॥ . सुभ्रू इत्येवमादिभ्यः कच् समासान्तो न भवति । सुभ्रः, लेखा, शलाकाभ्रूः, कोमलोरूः, संहितोरू, वरोरूः, पीवरोरु । जातिवचनत्वादुङन्ता एते । एवं हि आमन्त्र्ये सौ इस्वो भवति । हे सुभ्र, हे वरोरु । बहुवचनमाकृतिगणार्थम् । तेन करभोरूः संहितोरूः इत्यादयोऽपि भवन्ति ।१८२।
न्या. स० सुवा-सुश्रुरिति शोभनं भू भ्रमणं यस्या अत्र ऊङः प्राक् ‘शेषाद्वा' ६-३-१७५ इति कचि प्राप्त प्रतिषेधः, न च ऊक्यप्यानीते नित्यदिवारेण कच्प्रसक्तः तत्रोत्तरपदस्थस्यैव नित्यदित्त्वग्रहणात् ।
ननु 'उतोऽप्राणिनश्च' २-४-७३ इत्यत्र उङ् इत्येव विधीयतां किं दीपनिर्दिशेन !
सत्यं, ऊ ऊकारान्त एव भवति, न तद्विषये प्रत्ययान्तरम् । एवं तर्हि दीर्घनिर्देशादेव कच् न भविष्यति किं निषेधकरणेन ? सत्यं, शोभने ध्रुवौ यस्याः सा सुभूरिति ‘शेषाद्वा' ७-३-१७५ इति पक्षेऽपि कच् न भवति इति प्रतिषेधकरणं सार्थकम् , सुनु इत्येवमादिभ्य इति तु विवरणं विशेषव्याख्यानानपेक्षया कृतम् इत्याचार्य० सप्तस्याध्यायस्य तृतीयः पादः ।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपनशब्दानुशासनबृहद्वत्तौ सप्तमस्याध्यायस्य तृतीयः पादः ॥ ७.३ ॥
अयमवनिपतीन्दो मालवेन्द्रावरोधस्तनकलशपवित्रां पत्रवल्ली लुनातु ॥ कथमखिलमहीभृन्मौलिमाणिक्यमेवे घटयति पटिमानं भग्नधारस्तवासिः ।।