________________
३५२
बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १७८-१८१ ) सहात्तुल्ययोगे ॥ ७. ३. १७८॥
तुल्ययोगे यः सहशब्दः सामर्थ्यात्तदादेर्बहुव्रीहेः कच् समासान्तो न भवति । तुल्ययोगो वर्तिपदार्थस्य पुत्रादेवृत्त्यर्थेन पित्रादिना सह क्रियागुणजातिद्रव्यैः साधारणः संबन्धः । सपुत्र आगतः, सपुत्रः स्थलः, सपुत्रो ब्राह्मणः, सपुत्रो गोमान् । सहादिति किम् ? श्वेताश्वको देवदत्त आगतः। तुल्ययोग इति किम् ? सह विद्यमानानि लोमान्यस्य सलोमकः । सपक्षकः, सकर्मकः ।१७८।
न्या० स० सहा०-वर्तिपदार्थस्येति वर्तन्ते पूर्वपदोत्तरपदान्यस्मिन् 'विदिवृत्तेर्वाहः' ६१० ( उणादि) वर्त्तिः समासस्तस्य पदानि तेषामर्थः । भ्रातुः स्तुतौ ॥ ७. ३. १७९ ॥
भ्रात्रन्तात्समासात्कच् समासान्तो न भवति स्तुतौ भ्रातुः समासार्थस्य वा प्रशंसायां गम्यमानायाम् । शोभनो भ्रातास्य सुभ्राता, कल्याणभ्राता, प्रियभ्राता, बहुभ्राता। भ्रातुरिति किम् ? सुमातृकः । स्तुताविति किम् ? मूर्खभ्रातृकः ।१७९।
नाडीतन्त्रीभ्यां स्वाङ्गे ॥ ७. ३. १८० ॥ __ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्समासात्कच् समासान्तो न भवति । बहव्यो नाडयो यस्मिन् बहुनाडिः कायः, बहुतन्त्रोर्गीवा, तन्त्रीर्धमनिः । ङयाद्यन्ताभावाद्भस्वो न भवति । स्वाङ्ग इति किम् ? बहुनाडीकः स्तम्बः, बहतन्त्रीका वीणा । अन्ये त्वाहुर्न पारिभाषिकं स्वाङ्गमिह गह्यते किंत स्वमात्मोयमङ्ग स्वाङ्गम्। आत्मा चेह अन्यपदार्थः तस्याङ्गमवयवस्तस्मिन्निति। तेषां बहनाडिः स्तम्बः बहुन्त्रीर्वीणा । प्रत्युदाहरणं तु बहुनाडीकः कुविन्दः बहुतन्त्रीको नटः १८०।
न्या० स० नाडी०-आत्मा चेहेति ननु स्वमात्मीयमङ्गं स्वाङ्गमित्युक्तं ततश्च कोऽसावात्मेत्याह-स्येति । निष्प्रवाणिः ॥ ७. ३. १८१ ।।
निष्प्रवाणिरिति कजभावो निपात्यते । प्रोयतेऽस्यामिति प्रवाणी तन्तुवायशलाका सा निर्गतास्मादिति निष्प्रवाणिः कम्बल:, निष्प्रवाणिः पटः, तन्त्रादचिरोद्धत इत्यर्थः । 'गोश्चान्ते इस्वः' (२-४-९५) इत्यादिना इस्वः । ऊयते अस्यामिति वानिः, प्रभृता वानि: प्रवाणिः, सा निर्गता तन्तभ्योऽस्येति निष्प्रवाणिः सदश इत्येके । निर्गतः प्रवाण्या निष्प्रवाणिरिति