________________
[ पाद. ३. सू. १७३-१७७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [३५१ पुमनडुन्नौपयोलक्ष्म्या एकत्वे ॥ ७. ३. १७३ ॥
एकत्वविषये पुम्स् अनडुङ् नो पयस् लक्ष्मी शब्दास्तदन्ताबहुव्रीहेः कच् समासान्तो भवति । प्रियः पुमानस्य प्रियपुस्कः, प्रियानडुत्कः, प्रियनौकः, 'प्रियपयस्कः, प्रियलक्ष्मीकः एकत्व इति किम् ? द्विपुमान् द्विपुस्कः, वह्वनड्वान्, वह्वनडुत्कः, बहुनौः, बहुनौकः, बहुपयाः, बहुपयस्कः, बहुलक्ष्मीः, बहूलक्ष्मीकः । " शेषाद्वा' (७-३-१७५) इति विकल्पः । केचिल्लक्ष्मीशब्दात् द्वित्वबहुत्वयोरपि नित्यं कचमिच्छन्ति । अपरे तुल्ययोगेऽपि । सलक्ष्मीको 'विनाशितः ११७३। ___ न्या० स० पुम०–तुल्योगेऽपीति स्वमते तु “सहात्तुल्ययोगे' ७-३-१७८ इति निषेधात् कन्न भवति । नोऽर्थात् ॥ ७. ३. १७४ ।।
नञः परो योऽर्थशब्दस्तदन्ताबहुव्रीहेः कच् समासान्तो भवति । न विद्यतेऽर्थो यस्यानर्थकं वचः । नत्र इति किम् ? अपार्थम्, अपार्थकम् ।१७४। शेषादा ॥ ७. ३. १७५ ॥
यस्माद्बहुव्रीहेः समासान्तः प्रत्यय आदेशो वा न विहितस्तस्माच्छेषात् कच प्रत्ययः समासान्तो वा भवति । बहव्यः खट्वा अस्मिन् बहुखट्वकः, बहुखट्वः, बहुमालकः, बहुमालः, बहुवीणकः, बहुवीणः । शेषादिति किम् ? प्रियपथः, प्रियधुरः, व्याघ्रपाद्, सिंहपाद् । असलि शेषग्रहणे पक्षे परत्वात् कच् स्यात् । ।१७॥ न नाम्नि ॥ ७. ३. १७६ ॥
नाम्नि संज्ञायां विषये कच् समासान्तो न भवति । बहुदेवदत्तः, विश्वदेवदत्तः, बहुविष्णुमित्रः, विश्वविष्णुमित्रः । एवंनामानो ग्रामाः ।। विश्वदेवः, विश्वयशाः । एवंनामानौ पुरुषौ, पद्मश्रीः एवंनामा स्वी। श्वेताश्वतरिः स्त्री पुरुषो वा ।१७६१ ईयसोः ॥ ७. ३. १७७ ॥
ईयस्वन्तात्समासात्कच समासान्तो न भवति । बहुश्रेयान्, बहुप्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बहुश्रेयसी, बहुप्रेयसी ।१७॥