SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३५० ] बृहद्वृत्ति-लघुन्याससँवलिते. [पाद. ३ सू. १६८-१७२ ॥ त्रिककुदिरौ ॥ ७. ३. १६८॥ गिरी पर्वतेऽभिधेय ककुदशब्दस्य त्रिशब्दात्परस्य बहुव्रीही ककुदादेशः समासान्तो निपात्यते । त्रीणि ककुदानि ककुदाकाराणि शिखराण्यस्य त्रिककुत्पर्वतः। गिराविति सिद्धे निपातनं मिरिविशेषप्रतिपत्त्यर्थम, तेनान्यस्मिन् त्रिककुद इत्येव भवति ।१६८। स्त्रियामूधसो न ॥ ७. ३. १६९॥ स्त्रियां वर्तमानस्य ऊधस्शब्दस्य बहुव्रीही नकारादेशः समासान्तो भवति । कुण्डमिवोधोऽस्याः कुण्डोध्नी, घटोनी, पीवरमूधोऽस्या: पीवरोध्नी, महोनी गौः। खियामिति किम् ? महोधाः पर्जन्यः । बहुवीहेरित्येव ? ऊधः प्राप्ता प्राप्तोधा गौः ।१६९। इन: कच् ॥ ७. ३. १७०॥ ___इन्नन्ताबहुव्रीहेः स्त्रियां वर्तमानात्कच् प्रत्ययः समासान्तो भवति । बहवो दण्डिनोऽस्यां बहुदण्डिका, बहुच्छत्रिका सेना । बहुरासभराविका शाला। • अनिनस्मन्ग्रहणान्यर्थवतानर्थ केन च तदन्तविधि प्रयोजयन्ति । बहुस्वामिका वहुवाग्म्मिका पुरी। स्त्रियासित्येव । बहुदन्डी बदहुण्डिको राजा। चकारो 'न कचि' (२-४-१०४) इति विशेषणार्थः ।१७०। ऋन्नित्यदितः ॥ ७. ३. १७१ ॥ ऋकारान्तान्नित्यं दिदादेशो यस्मात्तदन्ताच्च बहीवोहेः कच समासान्तो भवति । ऋत्, बहुकर्तृकः, बहुहर्तृकः । नित्यदित, बहुकुमारीकः, बहुब्रह्मबन्धूको ग्रामः । नित्यग्रहणं किम् ? पृथुश्रीः पृथुश्रीकः, लम्बभ्रूः, लम्बभ्रकः । पर्वत्र खियां विधिरिति योगविभागः। केचिन्नित्यदितां यङन्तानामेव कचमिच्छन्ति । तन्मते बहुतन्त्रीः बहुतन्त्रीक इति · शेषाद्वा' (७-३-१७५) इति विकल्प: ।१७१। दध्युरःसर्पिमधूपागच्छालेः ॥ ७. ३. १७२ ॥ दधि, उरस्, सपिस्, मधु, उपानह्, शालि इत्येतदन्ताबहुव्रीहेः कच् समासान्तो भवति । प्रियदधिकः, प्रियोरस्कः, प्रियसपिष्कः, प्रियमधुकः, त्रियोपानका प्रियशालिकः ।१७२।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy