________________
पाद ३. सू. १६२ - १६७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३४९ तुङ्गा नासिकास्य तुङ्गनासिकः ॥ कथं गोनासः ? यद्यस्ति नासाशब्देन भविष्यति । चकारः पूर्वेणास्य बाधानिवृत्त्यर्थः । १६१ ।
न्या० स० अस्थू० - वार्षीणस इति वर्धस्येयं रज्जुरिति रज्जुविशेषणेन वाशब्दः परतः स्त्रीति भावप्राप्तिः, तद्वन्निरस्थिर्नासा अस्य ।
उपसर्गात् ।। ७. ३. १६२ ।।
धातुयोगे यः प्रादिरुपसर्गसंज्ञो भवति तस्मात्परस्य नासिकाशब्दस्य बहुव्रीहौ नस इत्ययमादेशः समासान्तो भवति । प्रगता प्रवृद्धा वा नासिका अस्य प्रणसं मुखम्, 'नसस्य ( २-३-६६ ) इति णः । उन्नता उद्धता वा नासिकास्य उन्नसं मुखम्, असंज्ञार्थं वचनम् ।१६२।
7
वैः
: खुत्रग्रम् ।। ७. ३. १६३ ।।
विशब्दादुपसर्गात्परस्य नासिकाशब्दस्य बहुव्रीहौ खुत्र इत्येते आदेशा: समासान्ता भवन्ति । विगता नासिकास्य विखुः, विस्त्रः, विग्रः । उपसर्गादित्येव । चेः पक्षिण इव नासिकास्य विनासिकः । १६३०
जायाया जानिः ॥ ७. ३. १६४ ॥
जायाशब्दस्य बहुव्रीहौ जानिरित्ययमादेशः समासान्तो भवति । युवतिया अस्य युवजानिः प्रियजानिः, शोभनजानिः, वधूजानि: अनन्यजानिः । १६४ | व्युदः काकुदस्य लुक् ।। ७. ३. ९६५ ॥
वि उद् इत्येताभ्यां परस्य काकुदशब्दस्य बहुव्रीहौ लुक् समासान्तो भवति । विगतं काकुदं तात्वस्य विकाकुत्, उत्काकुत् । १६५।
पूर्णाद्वा ।। ७. ३. १६६ ॥
पूर्णशब्दात्परस्य काकुदशब्दस्य बहुव्रीहौ लुक् समासान्तो वा भवति । पूर्ण काकुदमस्य पूर्णकाकुत्, पूर्णकाकुदः । पूर्णादिति किम् ? रक्तकाकुदः । १६६ ।
ककुदस्यावस्थायाम् ।। ७. ३. १६७ ।।
अवस्था वयः, काकुदशब्दस्य बहुव्रीहाववस्थायां गम्यमानायां लुक् समासान्तो भवति । न संजातं ककुदमस्य असंजातककुद्वालः, पूर्णककुद् युवा, स्थूलककुद्बलवान्, यष्टिककुद्, नातिस्थूलो नातिकृशः सन्नककुद् कृशः, पन्नककुद्धृद्धः । अवस्थायामिति किम् ? श्वेतककुदः । ककुच्छब्देनैव सिद्धे ककुदशब्दस्यास्मिन्विषये प्रयोगनिवृत्त्यर्थं वचनम् । १६७।