________________
३४८ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू० १५६-१६१ ] वोर्ध्वात् ॥ ७. ३. १५६ ॥
ऊर्ध्वशब्दात्परो यो जानुशब्दस्तस्य बहुव्रीही जुज्ञ इत्येतावादेशी समासान्तौ वा भवतः । ऊर्वे जानुनी अस्य ऊर्ध्वजुः, ऊर्ध्वज्ञः, ऊर्ध्वजानुः ।१५६। सुहृहृद्दन्मित्रामित्रे ॥ ७. ३. १५७ ॥
सुहृत्, दुई दिति सुपूर्वस्य दुष्पूर्वस्य च हृदयशब्दस्य बहुव्रीहौ यथासंख्यं मित्रे सख्यौ अमित्रे शत्रौ चामिधेये हृदित्ययमादेशः समासान्तो निपात्यते शोभनं हृदयं यस्य सुहृन्मित्रम्, दुर्ह दमित्रः । मित्रामित्र इति किम् ? सुहृदयो मुनिः, दुहृदयो व्याधः ।१५७। धनुषो धन्वन् ॥ ७. ३. १५८ ॥
धनुःशब्दस्य बहुव्रीही धन्वन् इत्ययमादेशः समासान्तो भवति । शाङ्ग धनुरस्य शाङ्गधन्वा, पिनाकधन्वा । अजकावधन्वा, गाण्डोवधन्वा । कथं गाण्डीवधनुषः खेभ्यो निश्चचार हुताशनः इति ? संज्ञात्वविवक्षायामुत्तरेण विकल्पो भविष्यति ।१५८।
वा नाम्नि ॥ ७. ३. १५९ ॥ ___ धनुस्शब्दस्य बहुव्रीहौ धन्वन्नित्ययमादेशः समासान्तो वा भवति नाम्नि संज्ञायां विषये । शतधन्वा, शतधनुः, पुष्पधन्वा, पुष्पधनः ।१५९। खरखुरान्नासिकाया नस् ॥ ७. ३. १६० ॥
खर, खुर इत्येताभ्यां परस्य नासिकाशब्दस्य बहुव्रीही नस् इत्ययमादेशः समासान्तो भवति नाम्नि । खरा खरस्येव वा नासिका अस्य खरणाः, खरणसौ। खुर इव नासिकास्य खुरणाः, खुरणसौ । 'पूर्वपदस्थान्नाम्न्यगः' (२-६-६५) इति णत्वम् । नाम्नीत्येव ? खरनासिकः, खुरनासिकः ।१६०। अस्थूलाच नसः ॥ ७. ३. १६१ ॥
स्थूलशब्दवजितात्पूर्वपदात्खरखुरशब्दाभ्यां च परस्य नासिकाशब्दस्य बहुव्रीही नस इत्ययमादेशः समासान्तो भवति नाम्नि । दुरिव नासिकास्य द्रुणसः, वार्धीव नासिकास्य वार्षीणसः। तद्धितः स्वर'-(३-२-५५) इत्यादिना पुंवद्भावाभावः । गोरिव नासिकास्य गोनसः, कुम्भीनसः, खरणसः, खुरणसः । अस्थूलादिति किम् ? स्थूलनासिकः । नाम्नीत्येव ।