________________
[ पाद. ३. सू १५२-१५५ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३४७ इत्ययमादेशः समासान्तो भवति । शोभना: सुजाताः समस्ता वा दन्ता अस्य सुदन् कुमारः, सुदती कुमारी। द्वौ दन्तावस्य द्विदन् बालः, त्रिदन्, चतुर्दन्, षड् दन्ता अस्प षोडन्, 'एकादशषोडशषोडत्'-(३-२-९१) इत्यादिना षष उत्वं दस्य च डः । वयसीति किम् ? सुदन्तो दाक्षिणात्यः, द्विदन्तः कुञ्जरः, ऋकारो ङयाद्यर्थः ।१५१। स्त्रियां नाम्नि ॥ ७. ३. १५२ ॥
बहुव्रीही स्त्रियां स्त्रीलिङ्गे नाम्नि विषये दन्तशब्दस्य दत्रादेशः समासान्तो भवति । अय इव दन्ता अस्या अयोदती, फालदती, परशुदती। एवंनामा काचित् । स्त्रियामिति किम् ? वज्रदन्तः, नागदन्तः । नाम्नीति किम् ? समदन्ती, स्निग्धदन्ती । असमास उत्तरत्र नाम्मीन्येतावतोऽनुवृत्त्यर्थः ।१५२। श्यावारोकादा ॥ ७. ३. १५३॥
श्याव अरोक इत्येताभ्यां परो यो दन्तशब्दस्तस्य बहुव्रीहौ दत्रादेशः समासान्तो वा भवति नाम्नि संज्ञायां विषये। श्यावाः कपिशा दन्ता अस्य श्यावदन, श्यावदन्तः । अरोका निर्दीप्तयो निश्छिद्रा वा दन्ता अस्य अरोकदन, अरोकदन्तः । नाम्नीत्येव, श्यावदन्तः, अरोकदन्तः ।१५३। वाग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात् ॥ ७. ३. १५४ ॥
अग्रान्तेभ्यः शुद्ध, शुभ्र, वृष, वराह, अहि, मूषिक, शिखर इत्येतेभ्यश्च परो यो दन्तशब्दस्तस्य बहुव्रीहौ दत्रादेशः समासान्तो वा भवति । कुड्मलाग्रमिव दन्ता अस्य कुड्मलाग्रदन्, कुड्मलाग्रदन्तः, शिखरामा दन्ता अस्य शिखराग्रदन्, शिखराग्रदन्तः, शुद्धा दन्ता अस्य शुद्धदन्, शुद्धदन्तः, शुभ्रदन, शुभ्रदन्तः, वृषस्येव दन्ता अस्य वृषदन्, वृषदन्तः, एवं वराहदन्, वराहदन्तः, अहिदन, अहिदन्तः, मूषिकदन्, मूषिकदन्तः, शिखरदन्, शिखरदन्तः । योगविभागान्नाम्नीति निवृत्तम् ।१५४।
संप्राज्जानोजज्ञौ ।। ७. ३. १५५ ॥
___ संप्र इत्येताभ्यां परस्य जानुशब्दस्य बहुव्रीहौ जुज्ञ इत्येतावादेशी समासान्ती भवतः । संगते जानुनी अस्य संजुः, संज्ञः। प्रगते प्रवृद्धे प्रणते प्रकृष्टे वा जानुनी अस्य प्रजुः प्रज्ञः। संप्रादिति किम् ? विजानुः । वचनभेदाद्यथासंख्याभावः ।१५५।